SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३१६ यियासुरपि युद्धाय चन्द्रः सचिववारितः । शतघ्नीभिश्च यन्त्रैश्च दुर्गमुच्चैरसज्जयत् ॥१२३॥ प्रतीक्ष्यमाणयोः क्षेत्रे निर्णीतरणवासरम् । अधःस्थैरुपरिस्थानां नित्यं प्रववृते रणः ॥ १२४॥ श्रुत्वैतत् सुव्रता साध्वी मुधा मा भूज्जनक्षयः । इत्येत्यैकार्यया सार्धं शिबिरे श्रीनमेरगात् ॥ १२५॥ प्रणम्य तां नमिबद्धाञ्जलिर्दत्तासनोऽविशत् । तत्पुरो भुवि साऽप्युच्चैस्तेने कुशलदेशनाम् ॥ १२६॥ "तुच्छचञ्चलसाम्राज्यलवगर्वविचेतनः । वृथा करोषि मानुष्यमवाप्तमतिदुर्लभम् ॥ १२७॥ यं समाश्रित्य तिष्ठन्ति सर्वभूतानि निर्भयम् । तस्यैव प्रभविष्णुत्वं श्लाघ्यमस्खलितौजसः ॥ १२८॥ ज्येष्ठेन बन्धुनाऽग्राहि स्वयमभ्यागतः करी । तत् किमन्यत्र कुत्रापि गतो यत् कुरुषे क्रुधम् ? ॥१२९ ॥ सर्वत्रापि कृतः क्रोधोऽदभ्रश्वभ्रविपत्करः । गुरून् प्रति कृतो यस्तु कथ्यते तस्य का कथा ?" ॥१३०॥ विस्मितोऽथ नमिर्दध्यौ किमिदं वक्ति संयती ? | क्व स चन्द्रयशाः क्वाहं पृथग्देशकुलोद्भवौ ? ॥१३१॥ ज्यायानेष कनिष्ठोऽहमिति सङ्गच्छते कथम् ? | सन्दिहानमिति क्ष्मापं नमिमाह महासती ॥१३२॥ प्रत्येहि युगबाहुस्ते पिता तत्त्वात् प्रसूरहम् । वने जातस्तथाऽऽतोऽसि मिथिलेशेन तद्यथा ॥ १३३ ॥ नृपः पद्मरथः पुष्पमालाऽस्य महिषी च ते । बालधारश्च धात्री च ज्ञात्वैवं स्वं हितं कुरु ॥१३४|| सोदरेऽपि हि मोहान्धश्चेष्टसे किं विपक्षवत् ? । अवश्यत्याज्यराज्याय किं गुरूनवमन्यसे ? ॥१३५॥ असंदिग्धमिदं मेने नमिः सर्वं प्रसूवचः । परमं तीर्थमिव तां प्रमोदेन ननाम च ॥ १३६ ॥ उत्तरज्झयणाणि - १ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy