SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३१२ उत्तरज्झयणाणि-१ उक्तञ्च "अंजणगिरीसु चउसुं तह सोलस दहिमुहेसु सेलेसु । बत्तीस इकरेसुं नंदीसरदीवमझंमि ॥७०॥ जोयणसयदीहाई पन्नासं वित्थडाई विमलाई । बावत्तरूसियाइं बावन्ना हुंति जिणभवण" ॥७१॥ मुक्तकल्पमिवात्मानं मन्वानैतन्नमस्यया । साऽनंसीन्मणिचूडर्षि शिलास्थं समणिप्रभा ॥७२॥ सोऽपि ज्ञात्वा तयोर्भावमुपदेशं तथा व्यधात् । उपशान्तो यथा मेने स्वसारं तां मणिप्रभः ॥७३॥ श्रमणं देशनाप्रान्ते साऽपृच्छद् विहिताञ्जलिः । प्रवृत्तिं निजबालस्य सोऽप्याख्यत् ज्ञानवानिति ॥७४।। विजये पुष्कलावत्यां पुरेऽभून्मणितोरणे । चक्री मित्रयशा नाम्ना पुष्पवत्यस्य वल्लभा ॥७५।। पुष्पसिंह-रत्नसिंहावेतयोधर्मिणौ सुतौ । अब्ध्यष्टपूर्वलक्षाणि तौ भुक्त्वा राज्यवैभवम् ॥७६।। चारणश्रमणोपान्तात्तव्रतौ तानि षोडश । अभूतां तत् परीपाल्याच्युते सामानिकौ सुरौ ॥७७।। ततोऽपि धातकीखण्ड-भरतार्धेऽर्धचक्रिणः । पन्यां समुद्रदत्तायां हरिषेणस्य नन्दनौ ॥७८॥ आद्यः सागरदेवोऽभूत् परः सागरदत्तकः । आबाल्यादप्युभौ राज्यनिराकाङ्क्षौ बभूवतुः ॥७९।। दृढसुव्रतदेवस्य द्वादशस्य स्वयम्भुवः । तीर्थेऽथ तौ विनिष्क्रान्तौ संवेगादुपसद्गुरु ॥८॥ १. अञ्जनगिरिषु चतुर्पु तथा षोडश दधिमुखेषु शैलेषु । द्वात्रिंशति रतिकरेषु नन्दीश्वरद्वीपमध्ये ॥ २. योजनशतदीर्घाणि पञ्चाशद् विस्तृतानि विमलानि । द्वासप्तत्युच्छ्रितानि द्वापञ्चाशद् भवन्ति जिनभवनानि ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy