SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याख्यमध्ययनम् तृतीयवासरे विद्युन्निपातेन निपातितौ । तावभूतां सुरौ शुक्रेऽम्बुधिसप्तदशस्थिती ॥८१॥ अन्यदा भरतेऽत्रैव ताभ्यां श्रीनेमितीर्थकृत् । साक्षाद् व्याख्याक्षणे पृष्टः कियानद्यापि नौ भव: ? ॥८२।। एको वां मिथिलाधीश-जयसेनाङ्गजः परः । युगबाहोरुभावन्त्यदेहाविति जगौ प्रभुः ॥८३॥ श्रुत्वेत्येकावतारत्वं नीत्वाऽऽयुस्त्रिदशालये । मिथिलायां तयोराद्यो जयसेनसुतोऽभवत् ।।८४॥ युवा पद्मरथाख्योऽसौ राज्यमासाद्य पैतृकम् । सम्राडभून्नृपव्यूहमौलिमाल्यार्चितक्रमः ॥८५।। आर्य ! पर: पुनश्च्युत्वा स त्वदीयौरसोऽभवत् । तं च पद्मरथो वक्रहयानीतोऽधुनाऽऽप्तवान् ॥८६॥ पत्न्यै स पुष्पमालायै तेन पुत्रतयार्पितः । जन्मैवोद्दिश्य चक्रे च महांस्तस्य महोत्सवः ॥८७|| पूर्वसौभ्रात्रतोऽत्रापि प्रश्रयो मिथिलेशितुः । तस्मिंस्तथाऽस्ति न यथाऽन्यस्य स्यात् तनुजे पितुः ॥८८॥ वृष्टिरत्रान्तरे पौष्पी दिवोऽभूद् रत्नमिश्रिता । विमानमेकमागाच्च सहस्रकिरणोज्ज्वलम् ॥८९।। उत्तीर्यास्मात् सुरः कश्चित् संसद्यस्यां महामहाः । सती मदनरेखां प्राक् त्रिः परीत्य मुदाऽनमत् ॥९०॥ पश्चात् तं मुनिमानम्यासीनमेनं मणिप्रभः । विनयव्यत्यये हेतुमपृच्छत् प्राह सोऽप्यदः ॥९१।। युगबाहुरहं पूर्वभवे मणिरथानुजः । हतोऽग्रजेन तद्वैरानुबन्धाच्छमितोऽनया ॥९२।। यस्मादजनि देवद्धिर्धर्मे तस्मिन्नसौ गुरुः । कृतज्ञेन मया पूर्वं सादरं तदियं नता ॥१३॥ यो येन विमले धर्मे गृहिणा यतिनापि वा । स्थापितो धर्मदानेन तस्यासौ निश्चितं गुरुः ॥१४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy