________________
३१०
उत्तरज्झयणाणि-१ शोकाक्रान्तेऽखिले लोके औरसे च विशेषतः । अतिदक्षा शुचं त्यक्त्वा सती सेति व्यचिन्तयत् ॥४३॥ धिग् मे रूपमनर्थैकहेतु सम्प्रत्यसौ नृपः । शीलध्वंसमनिच्छन्त्या अपि कर्ता कदाचन ॥४४॥ अथवाऽस्मिन् कुमारोऽपि पापः पापं करिष्यति । कालोचितमिदं तन्मेऽधुना क्वापि पलायनम् ॥४५॥ वरं मे मृत्युरप्यस्तु न पुनः शीलखण्डना । मृतोऽपि शीलवान् श्लाघ्यो जीवन्नपि न तच्च्युतः ॥४६॥ इत्थं निशीथे निश्चित्य निःसृत्य तरसाऽथ सा । उत्पथेन तथाऽयासीद् भग्नशुल्को यथा वणिक् ॥४७॥ यान्ती महाटवीमापाति चक्राम च यामिनीम् । मध्याह्नेऽथ सरो लेभे सफलद्रुमशालितम् ॥४८॥ व्रतार्थं संयमीवैषा गर्भार्थं वृत्तिमादधे फलान्यत्त्वा पयः पीत्वा निरपेक्षाऽपि जीविते ॥४९।। संकीर्णकदलीच्छाये वने सुष्वाप सा क्षणम् । साकाराहारसंन्यासमाधायाध्वपरिश्रमात् ॥५०॥ डुढौकेऽत्र पुना रात्रिस्तत्रास्या नाभवद् भयम् । शीलाङ्गरक्षगुप्तायाः शिवा-व्याघ्रादिफूत्कृतैः ॥५१।। वेदनार्ताऽर्धरात्रेऽथ प्रभूताद्भुतलक्षणम् । काष्ठाष्टककृतोद्योतमसूतैषा सती सुतम् ।।५२।। आमुक्तभर्तृनामाङ्कमुद्रं भद्रममुं शिशुम् । रत्नकम्बलसंवीतं न्यस्य तत्रैव सा प्रगे ॥५३॥ वपुषो वाससां शौचं कर्तुमागात् सरोऽन्तरम् । जलेभेन करेणैषोत्पाट्यात्र प्रापिताऽम्बरम् ॥५४॥ युवा विद्याभृदेकस्तां पतन्तीं वीक्ष्य खाद् भुवि । रूपालक्ष्मीमिवाध्यक्षां पाणिभ्यां प्रयतोऽगृहीत् ॥५५॥ वैताढ्यं तेन नीताऽसौ स्वकर्मप्रतिकूलताम् । स्मरन्ती तमुवाचैवं वृत्तं स्वीयं कृपावहम् ॥५६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org