SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३०९ नवमं नमिप्रव्रज्याख्यमध्ययनम् देहो गृहं कुटुम्बं श्रीः प्रतिष्ठा सर्वमाप्यते । अर्हदुक्तस्तु धर्मोऽयं सुकृतैर्यदि लभ्यते ॥२९॥ ध्यात्वाऽर्हतो गुरून् नत्वा सम्यक्त्वं मनसा श्रय । रत्नत्रयमयं पन्था मोक्षस्याभिमतोऽस्तु ते ॥३०॥ शरणं चाहतः सिद्धान् साधून् धर्म च संश्रय । न जीवांस्त्रातुमन्योऽस्ति यत् कोऽपि परमीश्वरः ॥३१॥ ज्ञान-दर्शन-चारित्र-तपो-वीर्यात्मनां स्वयम् । त्वमालोचय पञ्चानामाचाराणामतिक्रमम् ॥३२॥ दुष्कृतं यत् कृतं चात्र भवे पूर्वभवेऽपि वा । तच्च तस्य च कर्तारं गर्हस्वात्मानमात्मना ॥३३॥ स्वस्यान्येषां च सत्कर्माण्यनुमोदस्व भावतः । एवं हि वृद्धि-स्वीकारौ पुण्यस्याभिमतौ जिनैः ॥३४॥ भवेऽत्रैव तथाऽन्यत्र मनो-वाक्-कर्मभिस्त्वया । ये दुःखे स्थापिता जीवास्तान् सर्वान् क्षमयाधुना ॥३५॥ सुखं दुःखं च कर्मोत्थं निमित्तमपरो मुधा । परमार्थेन जीवानां न तन्मित्रं न वा रिपुः ॥३६॥ दुर्गत्यै देहिनां वैरमियं मैत्री तु मुक्तये । वैरं व्युत्सृज्य तन्मैत्रीमेवं जीवेषु चिन्त्य ॥३७॥ यस्मै षट्कायजीवानामारम्भः क्रियते जनैः । प्रत्याख्याहि तमाहारमेवं ते हितमायतौ ॥३८॥ अष्टादशाथ स्थानेभ्यः प्रतिक्रमणमस्तु ते । भावयानित्यतां धेहि जैनयोगे स्थिरं मनः ॥३९॥ आवर्तय नमस्कारं पञ्चानां परमेष्ठिनाम् । श्रेयःश्रियं वशीकर्तुं प्रभुर्मन्त्री जयत्ययम् ॥४०॥ भावतः स्मरतः पञ्चपरमेष्ठिनमस्क्रियाम् । यस्य प्राणाः प्रतिष्ठन्ते मृतोऽपि हि स जीवति ॥४१॥ एतत् सर्वं त्रिधा शुद्ध्या प्रतीष्टं युगबाहुना । जिनाज्ञोपहितस्वान्तः स्वश्च प्राप स तत्क्षणात ||४२।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy