________________
३०७
नवमं नमिप्रव्रज्याख्यमध्ययनम्
अस्ति मालवभूत्तंसं पुरं नाम्ना सुदर्शनम् । तस्मिन् मणिरथो नाम पृथ्वीनाथो महाराथः ॥१॥ युवराजो युगबाहुरस्य सौभ्रात्रभाजनम् । प्रिया मदनरेखाऽस्य सीमभूः शील-रूपयोः ॥२॥ मिथ्यादृष्टिषु वैमुख्यमाभिमुख्यं मतेऽर्हताम् । परमश्राविका साऽभूत् कौशल्यमपि बिभ्रती ॥३॥ रोहिण्येव बुधः सूनुस्तया चन्द्रयशोऽभिधः । सुषुवे वणिका यस्य यशसश्चन्द्रमण्डलम् ॥४॥ तामन्यदा गवाक्षस्थां नृपो दृष्ट्वाऽऽङ्गजैः शरैः । अपनीतविवेकत्वादित्ययुक्तमचिन्तयत् ॥५॥ कदा ममैतया भावी सम्बन्धः शर्मवारिधिः ? । वञ्चितोऽहमभुक्त्वनां ही ! इयन्तमनेहसम् ॥६॥ वधूरनुजपत्नीति चिन्तनं सुखविघ्नदम् । मद्वन्धोर्यन्ममैवैतत् तद्भोगे कि विरुध्यते ? ॥७॥ इत्यनुध्याय ताम्बूल-दुकूलादि महीपतिः । प्रजिघाय रहस्तस्यै साऽप्यदुष्टा तदग्रहीत् ॥८॥ अभाण्यथैकदैकान्ते तेनैषा यदि मां पतिम् । स्वीकरोषि तदा कुर्वे त्वां साम्राज्यैकभागिनीम् ॥९॥ साऽपि दन्तेऽङ्गुली दत्त्वा सतीरत्नमदोऽवदत् । कथञ्चित् ज्येष्ठ ! चेद् ध्यातं तद् वाचोदचरः कथम् ? ॥१०॥ यां दृशाऽपि न पश्यन्ति ज्येष्ठा रागभिया वधूम् । तां नृप ! प्रार्थयन् भुक्त्यै पशुभ्योऽप्यतिरिच्यसे ॥११॥ पर्याप्तं तेन राज्येन यदकार्यनिबन्धनम् । त्वद्भातृराज्यभागेन स्वल्पेनापि हि मे मुदः ॥१२॥ अप्यवश्यागतो मृत्युर्न भिये स्यान्महात्मनाम् । लोकद्वयविरुद्धार्थोपस्थितिः प्राणहारिणी ॥१३॥ विश्वस्तस्याद्भुतप्रेम्णो नानुजस्यापि ते त्रपा । यदेवं श्वभ्रगर्तेकपातहेतुं चिकीर्षसि ॥१४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org