________________
३०६
उत्तरज्झयणाणि-१ तं ददर्शान्यदा पृथ्वीनाथस्तेन पथा व्रजन् । तादृशामध्यदुर्गन्धं संविग्नश्चेत्यचिन्तयत् ॥४९॥ "ही ! चित्रं केतुरैन्द्रोऽसौ विश्वासाराणुमानिव । तदाऽभूदधुनैवायं कीदृशोऽजनि धिग् भवम् ॥५०॥ धराधरधुनीनीरपूरपारिप्लवं वपुः । जन्तूनां जीवितं वातधूतध्वजपटोपमम् ॥५१॥ लावण्यं ललनालोकलोचनाञ्चलचञ्चलम् । यौवनं मत्तमातङ्गकर्णतालचलाचलम् ॥५२॥ स्वाम्यं स्वप्नावलीसायं चपलाचपलाः श्रियः । प्रेम द्वित्रिक्षणस्थेम स्थिरत्वविमुखं सुखम् ॥५३॥ कृत्रिमाऽऽसीत् तदाऽमुष्मिन् शोभाऽऽरोपितवस्तुभिः ।
सर्वत्रैतादृशैर्वेयं ही ! भ्रान्तिर्मुग्धदेहिनाम् ॥५४॥ अपि च
"सुमतिरमतिः श्रीमानश्री: सुखी सुखवर्जितः, सुतनुरतनुः स्वाम्यस्वामी प्रियः स्फुटमप्रियः । नृपतिरनृपः स्वर्गी तिर्यग् नरोऽपि च नारकस्; तदिति बहुधा नृत्यत्यस्मिन् भवी भवनाटके" ॥५५॥ पर्यन्तविरसाः सर्वे संसारे विषया इमे । खलमैत्रीव तत् त्याज्या: परिभाव्येति पार्थिवः" ॥५६॥ प्रत्येकबुद्धता प्राप्तः पञ्चमुष्ट्युदपाटयत् ।
मूर्धजान् व्रतमादाय त्यक्तसङ्गो विजहिवान् ॥५७।। उक्तञ्च
"जो इंदकेउं सुअलंकिय तं दटुं पडतं पविलुप्पमाणं ।
रिद्धि अरिद्धि समुपेहिया णं पंचालराया वि समेक्ख धम्म" ॥५८॥ इति द्विमुखप्रत्येकबुद्धः ॥२॥
१. य इन्द्रकेतुं स्वलङ्कृतं तं दृष्ट्वा पतन्तं प्रविलुप्यमानम् । __ ऋद्धिमनृद्धि सम्प्रेक्ष्य पञ्चालराजाऽपि समीक्ष्य धर्मम् ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org