SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३०२ उत्तरज्झयणाणि-१ तद् यथैतस्य सौन्दर्यं मया दृष्टं विनश्वरम् ।। सर्वं विश्वं तथा काऽऽस्था ततोऽस्मिस्तत्त्ववेदिनाम् ? ॥२११।। भोगोपभोगयोर्बीजं धनं तदपि न स्थिरम् । ध्वज-शक्रधनुर्विद्युद्-बुद्धदादिनिदर्शनैः ॥२१२॥ क्षणं बहिर्मनोहारि विचारेन्तर्न सुन्दरम् । वपुः-पुत्र-कलत्रादि सर्वं तत् कोऽत्र रज्यते ? ॥२१३॥ इति वैराग्यवान् बाढं जातजातिस्मृतिर्नृपः । ज्ञातपूर्वभवाभ्यस्तैकादशाङ्गो ललौ व्रतम् ॥२१४॥ देवतादत्तलिङ्गोऽसौ प्राप्तः प्रत्येकबुद्धताम् । करकण्डुश्चिरं पृथ्वी विजहार महामनाः ॥२१५।। उक्तञ्च १ सेयं सुजायं सुविभत्तसिंगं जो पासिया वसहं गोट्टमझे। रिद्धि अरिद्धि समुपेहिया णं कलिंगराया वि समेक्खधम्मं" ॥२१६॥ इति करकण्डुप्रत्येकबुद्धः ॥१॥ श्रीकाम्पील्यपुरे राजा हरिवंशनभोरविः । न्यायौदार्यावधिः पात्रं जयाख्यो विजयश्रियः ॥१॥ गणमालेति तत्पत्नी स्पृहणीयतराऽभवत् । मालेव सन्मनोभृङ्गैर्याऽसेव्यत निरन्तरम् ॥२॥ मन्त्रिषु न्यस्तधूर्भूपः सह वल्लभया तया । संसारसुखसर्वस्वं भेजे शच्येव वासवः ॥३॥ अन्यदा संसदासीनो दूतं देशान्तरागतम् । स्वसाम्राज्यमदात् पर्यन्वयुक्त वसुधाधिपः ॥४॥ विषयान्तरसञ्चारचतुरस्त्वं तदुच्यताम् । तत् किञ्चिदस्ति विश्वायां राज्ये यन्मम नास्ति भोः ! ॥५॥ प्रोवाच प्रणिधिः प्राप्यं राज्ये ते सर्वमद्भुतम् । परं न भ्राजते देव ! सौधं चित्रसभां विना ॥६॥ १. श्वेतं सुजातं सुविभक्तशृङ्ग यो दृष्ट्वा वृषभं गोष्ठमध्ये । ऋद्धिमनृद्धि सम्प्रेक्ष्य कलिङ्गराजोऽपि समीक्ष्य धर्मम् ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy