________________
नवमं नमिप्रव्रज्याख्यमध्ययनम्
चिरान्मित्रमिवालोक्य तं नृपोऽभूत् प्रहर्षवान् । उत्पाट्य तन्मुखं चुम्बन् मोहादित्याह वल्लवान् ॥ १९९॥ भो वल्लवा ! न दोग्धव्या माताऽस्य सुभगाकृतेः । अयं पाययितव्यश्चान्यासामपि गवां पयः || २००|| राजादेशममुं प्राप्य राजपुत्रमिवादरात् । गोपालाः पालयामासुस्तं वत्सं वत्सलाशयाः ॥२०१|| ककुद्मान् पिच्छलच्छायः स्थूलकायो निरामयः । सुतीक्ष्णशृङ्गशुभ्राङ्गो वृषभः सोऽभवत् क्रमात् ॥ २०२॥ तमन्यदा नृपो वीक्ष्य प्राप्तो व्रजदिदृक्षया । प्रीत्येत्याहग व्रजाध्यक्षान् साध्वेष परिपालितः ॥२०३॥ सुवर्णशृङ्खलेनैनमाभूष्य पुनरासदत् । पुरीं नरेश्वरस्तस्य वात्सल्यं मनसोद्वहन् ॥२०४॥। असकृत् प्रेषयामास नृपस्तस्मै गुडादिकम् । पशुर्वाऽस्तु पुमान् वाऽस्तु पोष्य एव स्ववल्लभः ॥२०५॥ कियत्यपि गते काले नृपोऽगाद् गोकुलं पुनः । एकं जरद्गवं तत्रापश्यद् गोष्वस्थिपञ्जरम् ॥ २०६॥ गलल्लालकरालास्यं वायसैर्व्याकुलीकृतम् । तमतिक्षीणमालोक्य गोपालान् भूधवोऽभ्यधात् ॥२०७॥ आबाल्यादपि मन्नेत्रामृतं क्व स महावृष: ? । तै राजन् ! सोऽयमित्युक्ते विरक्तोऽचिन्तयन्नृपः ॥२०८॥ "गीट्टंगणस्स मज्झे ढेक्कियसद्देण जस्स भज्जंति । दित्ता वि दरियवसहा सुतिक्खसिंगा समत्था वि ॥ २०९ ॥ पोराणय गयदप्पो गलंतनयणो चलंतवसहुट्टो | सो चेव इमो वसो पड्डुयपरिघट्टणं सहइ" ॥२१०॥
१. गोष्ठाङ्गनस्य मध्ये ढेक्कितशब्देन यस्य भज्यन्ते । दीप्ता अपि दर्पितवृषभाः सुतीक्ष्णशृङ्गाः समर्था अपि ॥ पौराणको गतदर्पो गलन्नयनश्चलद्वृषभोष्ठः । स चैवायं वृषभः पड्डुकपरिघट्टनं सहते ॥
Jain Education International 2010_02
For Private & Personal Use Only
३०१
www.jainelibrary.org