________________
३००
उत्तरज्झयणाणि-१ दृष्ट्वा सतन्त्रमायान्तं प्रशान्तं दधिवाहनम् । तातं नन्तुं पादचारी तमभ्यागात् परोऽपि हि ।।१८५।। तेजोऽक तरुणं पुत्रं प्रणतं राज्यधूर्धरम् । यमालिङ्ग्यान्वभूद् हर्षं तं वेद दधिवाहनः ॥१८६।। उभावपि प्राविशतामन्तश्चम्पं महोत्सवैः । वीक्ष्यमाणौ सकुतुकं पौरनारीविलोचनैः ॥१८७।। करकण्डं निवेश्याङ्केऽध्यास सिंहासनं नृपः । कृतकृत्य इव स्वान्ते चिन्तयामासिवानदः ॥१८८।। "राज्यभारक्षमा एते विश्वाभीष्टाः प्रतापिनः । करकण्डुसमा पुत्रा ममाभूवन्ननेकशः ॥१८९॥ तस्मात् सुगुरुसंयोग: साम्प्रतं जायते यदि । इदं राज्यं परित्यज्य व्रतराज्यं तदाददे" ॥१९०।। ध्यायन्तमिति तत्कालं नृपमुद्यानपालकः । ग्रीष्मेऽनभ्रपयोदाभमिदमेत्य व्यजिज्ञपत् ॥१९१॥ धर्मघोषाभिधः सूरिर्वनेऽद्य समवासरत् । इत्यभिज्ञापिता राजन्नधिकारितया मया ॥१९२॥ अस्मै नृपोऽपि सन्तुष्टो दत्त्वा द्राक् पारितोषिकम् । करकण्डोर्महाराज्याभिषेकं कृतवान् मुदा ॥१९३।। स्वयं तु विधिवत् सूरिपाइँ संविग्नमानसः । चारित्रधुरमादाय परमार्थमसाधयत् ॥१९४।। अथ पैतृकसाम्राज्यमाप्यासौ दिद्युतेऽधिकम् । करकण्डुः करस्थश्रीः शारदीं ग्लौरिव च्छविम् ॥१९५।। अनेकरथ-हस्त्यश्व-पत्तिवानप्यसौ नृपः । भेजे गोकुलवात्सल्यं प्रकृत्या सा हि दुस्त्यजा ॥१९६।। गो-धेनु-तर्णकाकीर्णान् स्वेच्छयैव व्रजान् निजान् । पश्यन्नप्यभवत् प्रीतः स पिबन्निव तत्पयः ॥१९७।। अन्यदैकं व्रजं प्राप्तस्तत्रैकं नूत्नतर्णकम् । घटितं म्रक्षणेनेव धवलं स व्यलोकयत् ॥१९८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org