SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २९८ वस्तु दत्त्वा परं वस्तु गृह्णन्ति वणिजो हि ये । स्वभूवं विना युद्धं राज्ञे दद्युर्न भूधवाः ॥ १५७॥ मा देहि स कृपाणेन ग्रहीता तेऽखिलां श्रियम् । इति ब्रुवन् निरैद् दूतः करकण्डुमुपागमत् ॥ १५८ ॥ तस्मात् तद्वृत्तमाकर्ण्य क्षणादुत्थाय विष्टरात् । चतुरङ्गबलोल्लासी चम्पेशं सोऽभ्यषेणयत् ॥ १५९ ॥ साधयन् मार्गभूपालानुपचम्पं न्यवीविशत् । सैन्यं तेन महीमब्धिनेव तां परिवेष्ट्य सः ॥ १६० ॥ करकण्डुर्बली दुर्गबली तु दधिवाहनः । इत्येतयोरेकयायी न जयो न पराजयः ॥ १६९ ॥ सम्भूयते बहिः सैन्यमन्तस्तु परिहीयते । अन्नागमादिरोधेनेत्यङ्गनाथोऽस्मरद् हृदि ॥ १६२॥ बिलेषु मूषकेणेव हीनसत्त्वेन यन्मया । द्वाराण्याच्छाद्य दुर्गस्य स्थीयते तन्न युज्यते ॥ १६३॥ करकण्डुशशः कोऽस्ति सिंहस्येव ममाग्रतः ? | लज्जया निरगां नाहं तेन योद्धुमियच्चिरम् ॥१६४॥ अथाविनीततां कुर्वंश्चाण्डालोऽपि निगृह्यते । ध्यात्वेति सबलो दुर्गान्निरगाद् दधिवाहनः ॥ १६५॥ स्वयमेवागतं श्रुत्वा तं परोऽपि स्वयं ययौ । दृष्ट्वाऽन्योन्यं तयोरासीच्चित्रमाकस्मिकी हि मुत् ॥१६६॥ क्षेत्रे तथाऽपि तौ क्षत्रव्यवहारवशाच्चिरम् । भूर्भुव: स्वस्त्रयीचित्रप्रदं चक्रतुराहवम् ॥१६७॥ चम्पेशस्तं सुतं मेने तं च तातमिवापरः । इत्यन्योन्योच्छलत्स्नेहावपि तौ न न्यवर्तताम् ॥१६८॥ चिरं नियुध्य सन्ध्यायां निवृत्य दधिवाहनः । प्रत्यगब्धिमिवादित्यः प्राविशन्नगरान्तरे ॥ १६९॥ प्राकारकपिशीर्षस्थभटैः सह तयोरथ । सङ्ग्रामो जायते नित्यमन्योन्यमतिदुःसहः ॥ १७०॥ For Private & Personal Use Only उत्तरज्झयणाणि - १ Jain Education International 2010_02 www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy