________________
नवमं नमिप्रव्रज्याख्यमध्ययनम्
सोऽहं येन कलिश्चक्रे तद्वंशादानहेतवे । तत् तदाऽङ्गीकृतं ग्रामं देहि मे धेहि सद्यशः ॥ १४३ ॥ धराधीशस्तदाकर्ण्य तमाह द्विज ! रोचते । यत् ते ग्रामोऽथ नगरं तद् याचस्वास्मि तद् ददे ॥ १४४॥ दध्यौ विप्रोऽत्र विषये न कोऽपि स्वजनोऽस्ति मे । आत्मवर्गपरित्यक्ते तद् ग्रामेणात्र मे सृतम् ॥ १४५॥ स्थानभ्रष्टमनुष्यस्य ग्लानिरेव क्षणे क्षणे । पादपादपनीतस्य प्रसूनस्येव जायते ॥ १४६ ॥ स्मृत्वेति वक्रधीविप्रो निकृत्योवाच साञ्जलिः । प्रतापतस्त्वदायत्ता राजन् ! सर्वाऽपि मेदिनी ॥ १४७॥ प्रतिज्ञातसमुद्रस्य पारं चेद् गन्तुमिच्छसि । चम्पादेशे तदा ग्रामं देहि मे तत्रवासिनः ॥ १४८ ॥
पृष्टवानथ भूनाथस्तं कस्तत्र क्षितीश्वरः ? । दधिवाहन इत्युक्ते दूतं प्रैषीत् तदन्तिके ॥ १४९॥
दूतोऽप्युपतदागत्य लेखं दत्त्वेत्युवाच तम् । करकण्डुर्मम स्वामी भवन्तमिति भाषते || १५०॥ मत्प्रेषिताय विप्राय ग्राम एकः स्वनीवृति | इष्टः प्रदेय एवात्र देशे ग्राह्यः स तादृशः ॥१५१॥ वस्तुना गृह्यते वस्तु न्याय एष महीतले । एवं च नौ भवेत् प्रीतिस्तवापि स्यात् ततः शुभम् ॥ १५२॥ परेऽपि सति सामर्थ्ये न्याय्यः पन्था न मुच्यते । करकण्डुनृपेणातः प्रतिदानमपीष्यते ॥१५३॥ इति दूतवचः श्रुत्वा जज्वालाङ्गपतिः क्रुधा । स्फुरदोष्ठो बभाषे तं पश्यन्नभि भुजार्गलम् ॥१५४॥ स रे ! नात्मानमावेत्ति त्वत्स्वामी करकण्डुकः । यदस्माभिः श्वपाकः सन् व्यवहर्तुं समीहते ॥ १५५ ॥ तद् याहि स निजे देशे दत्तां ग्रामं द्विजन्मने । नाहं दाता निजं ग्रामं तत्सन्देशेन कर्हिचित् ॥१५६॥
For Private & Personal Use Only
Jain Education International 2010_02
२९७
www.jainelibrary.org