SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २९६ उत्तरज्झयणाणि-१ मन्त्रयित्वेति ते विप्रा अरौत्संस्तत्पथं हठात् । उद्दण्डदण्डानुत्पाट्योदतिष्ठंश्चास्य सम्मुखम् ॥१३०॥ ब्रह्मघातभयात् केचित् केचिद् भक्तेरभावतः । प्रायः सर्वेऽपि सुभटा उदासीना इवासते ॥१३१॥ स्वभाग्यनिश्चयं जानन् दधिवाहननन्दनः । तदाऽधिकमहावंशयष्टिं तामुदपाटयत् ॥१३२॥ विद्युदुद्दण्डदण्डाभं दृष्ट्वैवैनं भयङ्करम् । मूच्छिता वाडवाः पेतुनिर्जीवा इव कातराः ॥१३३।। एवं विप्रानपाकृत्य प्रकटौजा महीपतिः । प्रविश्य क्रमतः सौधेऽध्यास राजन्यविष्टरम् ॥१३४।। क्षितीश्वराः परे सर्वे भेजुस्तं भक्तिभासुराः । आज्ञोल्लङ्घनमाधत्त तस्य कोऽपि न कुत्रचित् ॥१३५॥ चाण्डालनिलये विप्रान् स सामर्थ्यादजेमयत् । विप्रवैरं स्मरन् भूपस्तांश्चान्योन्यं व्यवाहयत् ॥१३६।। छायायां स्वातपत्रस्य संस्नाप्य श्वपचान् नृपः । विप्रीचकार सन्तो हि पावयन्ति निजाश्रयम् ॥१३७॥ अत एवोच्यते "दधिवाहनपुत्रेण राज्ञा तु करकण्डुना । वागधानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः" ॥१३८।। एवं तेजोभराक्रान्तनिःशेषोग्रमहीपतिः । प्रशशास प्रजा न्यायसेवधिः स नराधिपः ॥१३९।। अस्य साम्राज्यमाकर्ण्य स विप्रो विश्वविश्रुतम् । प्रपन्नग्राममादित्सुरेत्य तस्येदमूचिवान् ॥१४०॥ उपकारिण्युपकृति बहवोऽपि हि कुर्वते । अपकारिण्युपकृति कुर्वते विरला जनाः ॥१४१॥ पुंसः कल्पितुकामस्य च्छायां कुर्वन्ति पादपाः । सन्तो दुराशयस्यापि प्रियं प्रायः प्रकुर्वते ॥१४२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy