SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याख्यमध्ययनम् व्यापाद्यैनं बलाद् ग्राह्यो दण्डो राज्यरमाप्रदः । इति मन्त्रमधात् तं च कुतश्चित् श्वपचोऽशृणोत् ॥ ११६॥ ततोऽनश्यत् तमादाय सभार्यः स पुरात् ततः । वन्ध्येव सर्वविप्राणां सङ्कल्पो निष्फलोऽजनि ॥११७॥ अथाविच्छिन्नगमनैर्गच्छन्तस्ते त्रयोऽपि हि । सप्तमे दिवसे प्रापुः श्रीकाञ्चनपुरान्तिकम् ॥११८॥ श्रान्ताः सुषुपुरेकस्य वृक्षस्याधः श्रमच्छिदे | ममारेतश्च निष्पुत्रस्तत्र दैवान्महीपतिः ॥११९|| सामन्त-मन्त्रिणश्चक्रुः पञ्चदिव्याधिवासनाम् । तानि चोपतदाजग्मुर्भाग्याकृष्टा हि सम्पदः ॥ १२०॥ करकण्डोः प्रसुप्तस्य निःशङ्कं तत्र मस्तके | राज्याभिषेकमाधत्त करी कलशढालनात् ॥१२१॥ हयो हेषारवं चक्रे छत्रेणोच्छ्रितमम्बरे । अवीजि चामराभ्यां स स्वयं भाग्यैकसेवधिः ॥१२२॥ किमेतदिति सम्भ्रान्तो यावदुत्तस्थिवानसौ । तावदारोहयद् दन्ती स्वपृष्टौ स्वयमेव तम् ॥ १२३ ॥ करकण्डुरिति ख्यातो नाम्ना भोः ! भवतां नृपः । भाग्यलभ्योऽभवद् व्योम्नि देवगीरित्यजायत ॥ १२४॥ मिलिताः परितः सर्वे तस्य सामन्त- मन्त्रिणः । तैर्विज्ञप्तोऽथ नगरं प्रवेष्टुमुपचक्रमे ॥१२५॥ तत्पिता कुत्सिताकारः श्वपाकोऽज्ञायि वाडवैः । ततो मन्युभराक्रान्तैः सर्वैः सम्भूय मन्त्रितम् ॥ १२६॥ मातङ्गः स्वोचितं चक्रे मातङ्गस्याभिषेचनम् । सदृशाः सदृशेष्वेव रज्यन्ते नापरेषु यत् ॥ १२७॥ विवेकरहिता नूनं सामन्ताः पशुसन्निभाः । अहो ! चाण्डालराज्येन च्छुप्त्या विश्वं विगोपितम् ॥१२८॥ अस्माभिर्मलिनस्यास्य शुचिभिर्न प्रवेशनम् I दास्यते सति सूर्ये किं प्रवेष्टुं क्षमते तमः ? ॥ १२९ ॥ For Private & Personal Use Only Jain Education International 2010_02 २९५ www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy