SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २९३ नवमं नमिप्रव्रज्याख्यमध्ययनम् तदादि तेऽर्भकास्तस्य चक्रुः कण्डूयनं सदा । ततोऽस्य बालकैराख्या करकण्डुरितीरिता ॥८८॥ क्रमात् कला उपादत्त महाराजोचिताः समाः । यतः कुतश्चित् सम्पत्तिर्भवत्येव शुभोदये ।।८९।। स्मशानं पालयन्नेष समर्थो मतिसेवधिः । अन्यदोपवंशजालि मुनी यान्तौ समैक्षत ॥९०।। तयोराद्यः समस्तानां वंशानां वेत्ति लक्षणम् । वंशं तत्रैकपर्वाणमालोक्यैषोऽभ्यधात् परम् ॥११॥ मुने ! जानास्यदो वंशकृतदण्डस्य सत्फलम् ? । नेत्युक्ते सोऽभ्यधात् तहि सप्रपञ्चं निशम्यताम् ॥९२।। "एकपर्वा प्रशस्या स्याद द्विपर्वा कलहप्रदा । वंशयष्टिर्भवेल्लातुस्त्रिपर्वा लाभहेतवे ॥१३॥ मृत्यवे स्याच्चतुःपर्वा पञ्चपर्वा त्वसौ कलिम् । वारयेत् पथि पान्थानां षट्पर्वाऽऽतङ्कदायिनी ॥ ९४॥ अष्टाङ्गलप्रतिष्ठाना सप्ताङ्गलसमुच्छ्रया । मत्तेभवारिणी सप्तपर्वाऽऽरोग्यकरी तथा ॥१५॥ अष्टपर्वा भवेद् यष्टिरसम्पत्तिविधायिनी । नवपर्वा यशोहेतुर्दशपर्वा तु सम्पदे ॥९६॥ बहुवर्णा सशुषिरा दग्धा वक्रा सकीटका । ऊर्ध्वशुष्का भवेद् यष्टिर्वर्जनीया प्रयत्नतः ॥९७॥ वर्धमानलसत्पवैकवर्णा स्निग्धदीधितिः । इत्यादिलक्षणैर्युक्ता यष्टिः सर्वसमृद्धये ॥१८॥ तं वंशमेकपर्वाणं विशिष्टं वाञ्छितप्रदम् । अङ्गल्या विषयीकृत्य तद्गुणानभ्यधान्मुनिः" ॥९९।। अयमेतेषु सारोऽस्ति तारकेष्विव चन्द्रमाः । भाग्यातिशयवानेनं ग्रहीता भूपताप्रदम् ॥१००॥ ग्रहीतुः सप्तमे राज्यं दिने भवति निश्चितम् । प्रतिपाल्या परं यावच्चतुरङ्गलवधिता ॥१०१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy