________________
२९२
उत्तरज्झयणाणि-१ दम्पतीभ्यामपुत्राभ्यां प्राप्ते तस्मिन्स्तनन्धये । चिन्तामणौ दरिद्रेणेवातोषि महिमावति ॥७४।। गूढगर्भा पुरैषाऽऽसीदधुनाऽसूत नन्दनम् । इति लोकप्रथा जज्ञे लोकाः खलु बहिर्मुखाः ॥७५।। पद्मावती निजं बालं गतं चण्डालवेश्मनि ।
विज्ञान हृदये दूना सखेदा सत्यचिन्तयत् ॥७६॥ यद्वा
"सङ्गो न जायते नूनं सदसद्गुणकारणम् । मणिहि विषभृच्छीर्षस्थितो विषहरः स्मृतः ।।७८।। अनेनैषोऽपि चाण्डालो भविता निर्मलः खलु । श्यामलं व्योम चन्द्रेण निर्मलं क्रियते न किम् ? ॥७९॥ ध्यात्वेत्युपाश्रयं साऽगात् पृष्टा साध्वीभिरभ्यधात् । दैवादजनिषं पुत्रं स्मशाने मृतमत्यजम् ।।८०॥ वृद्धि प्राप शिशुस्तत्र लाल्यमानः शनैः शनैः । कल्पद्रुमाङ्कुर इव दैवादवकरावनौ ॥८१।। अवकर्णित इत्यस्य श्वपाको निर्ममेऽभिधाम् । क्रीडतोऽस्य ददावम्बा प्रेम्णा वर्षोपलादिकम् ॥८२।। आभाषयति तं बालं श्वपच्या सह सर्वदा । करोति प्रतिसंसर्ग सुतस्नेहो हि दुर्धरः ॥८३।। ततोऽवकणितोऽप्यस्यामनुरक्तोऽभवद् भृशम् । मातुः स्नेहादपरं च यो ददाति स देवता ॥८४॥ श्वपाकोऽपि समृद्धोऽभूत् तादृग्बालप्रभावतः । प्रदीपो हरति ध्वान्तं यत्र कुत्रापि संस्थितः ॥८५॥ खेलन् पद्मावतीपुत्रो राजपुत्रस्वभावतः । नृपीभूयार्भकानूचे क्रीडतः परितः स्थितान् ।।८६।। कण्डूयत शरीरं मे करोऽयं भवतां मयि । रूक्षखर्जूसमायोगान्मम कण्डूयनस्पृहा ॥८७॥
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org