________________
२९०
उत्तरज्झयणाणि-१ संयोगो विप्रयोगाक्तः सुखं दुःखसमाकुलम् । जनुः कालसमाक्रान्तमीदृश्येव भवस्थितिः ॥५०॥ मा भैषीस्तव तातोऽस्मीत्युक्त्वा वनफलैः कलैः । प्राणवृत्तिं तथाऽम्भोभिरनिच्छन्त्यपि कारिता ॥५१॥ ततः स दर्शयन् मार्गं तां निन्ये सजनावनिम् । पुरो दृष्ट्वा हलाकृष्टां महीमिति बभाण च ॥५२।। एतस्यां भुवि नास्माकं गन्तुं समुचितं भवेत् । वत्से ! गच्छ यथेच्छं त्वमितो दन्तपुरं वरम् ।।५३।। दन्तवक्त्रोऽत्र भूपालः प्राप्यन्ते चात्र नित्यशः । सार्था व्रजन्तश्चम्पायै गन्तव्यं तत्र तैस्त्वया ॥५४|| ववले मुनिरित्युक्त्वा साऽपि प्रापाचिरादथ । विवेकिलोकसङ्कीर्णं नगरं तज्जहर्ष च ॥५५॥ धर्मार्थिनी सा साध्वीनां ज्ञात्वा लोकात् प्रतिश्रयम् । जगामाशु ववन्दे ताः प्रवर्तिन्यन्तिकेऽविशत् ॥५६॥ साऽप्यस्याः प्रश्नमाधत्त त्वमायाः श्राविके ! कुतः ? । तामाख्यातयथाभूतवृत्तां च रुदतीमवक् ॥५७।। मा शुचः श्राद्धि ! निर्विघ्नशीलधर्मे ! मनागपि । मा गाः खेदमलद्ध्योऽसौ परिणामो विधेर्महान् ॥५८॥ यत्नान्निष्पादितं कार्य क्षणाद् विघटयेद् विधिः । साधयेच्चापि दुःसाध्यं सर्ग-भङ्गक्षमो ह्ययम् ॥५९॥ चलं रूपं चला लक्ष्मी: चलं प्रेम चलं वयः ।
चलेन वपुषा किञ्चिन्निश्चलं पुण्यमय॑ताम् ॥६०॥ किञ्च
वातोल्लालितजीर्णपर्णवदमी शून्यं भ्रमन्त्यङ्गिनः, पुंनारीधनहेमरत्नवसुधाभोगादिरागाकुलाः । स्थैर्यं तावदवाप्नुवन्ति न हि ते यावत् परात्माऽचले; श्रीसन्तोषशिलातलोरुविवरं निर्मारुतं नागताः" ||६१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org