SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २८९ नवमं नमिप्रव्रज्याख्यमध्ययनम् क्षमयामि सर्वजन्तून् क्षाम्यन्तु मयि जन्तवः । मैत्री समस्तभूतैर्मे वैरं मम न केनचित् ॥३८॥ क्षान्त्वा च क्षमयित्वा च शम-संवेगमागता । सा साकारं तदा भक्तप्रत्याख्यानं मुदाऽकरोत् ॥३९।। तथाहि "जेइ मे हुज्ज पमाओ इमस्स देहस्स इमाइ वेलाए । आहारमुवहिं देहं सव्वं तिविहेण वोसरियं" ॥४०॥ तथा सस्मार सैकाग्रा परमेष्ठिनमस्क्रियाम् । अमुत्रेह च यस्याः स्युः कल्याणानां परम्परा ॥४१॥ व्याधिः फणी जलं वह्नि-चौर-केसरि-कुञ्जराः । तस्याः स्मरणमात्रेण प्रभवन्ति भिये न हि ॥४२॥ नमस्कारदिनाधीशप्रतापेन न जृम्भते । सर्वतो दुरितध्वान्तं क्षेमाब्जं च विजृम्भते ॥४३॥ तदेकाननमस्कारप्यानध्यानप्रभावतः । व्याघ्र-व्यालादयो दुष्टाः पशवो नोपदुद्रुवुः ॥४४॥ अथैकां दिशमाश्रित्य सा गच्छन्ती शनैः शनैः । पुरस्तादेकमद्राक्षीत् तापसं सोपतद् ययौ ॥४५।। कृतप्रणामा साऽप्रच्छि कुतो वत्से ! त्वमागमः ? । कथं दशेशी प्राप्ता काऽसि कस्य सुतासि वा ? ॥४६।। श्रीचेटकप्रसूताऽहं दधिवाहनवल्लभा । गजेनापहृता दैवादाचचक्षे तयेति सः ॥४७|| तापसः प्राह हे वत्से ! स्वज्ञातीयो भवेन्मम । त्वत्पिता चेटकः स्पष्टं दिष्ट्या दृष्टासि साम्प्रतम् ॥४८॥ मा शोकं कुरु मा रोदीर्यतोऽपारे दुरुत्तरे । संसारे संसरन् जीवः क्वचिहुःखी क्वचित् सुखी ॥४९॥ १. यदि मे भवेत् प्रमादोऽस्य देहस्यास्या वेलायाम् । आहारमुपधि देहं सर्वं त्रिविधेन व्युत्सृष्टम् ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy