SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २८८ गजपृष्टौ दधावेऽथ बद्धमुष्टिर्नराधिपः । धावमानो गजस्तस्यादृश्योऽभूद् भूतवत् क्षणात् ॥२४॥ राजा दध्यावितो दूरे पुरी सेभा गता प्रिया । हा ! हा ! करोमि किमहमितो व्याघ्र इतस्तटी ||२५|| उत्तरज्झयणाणि - १ अथवा शीलमाहात्म्यात् स्वयमेव महासती । एषा समेष्यति गृहं किं क्लिश्यामि मुधा ततः ॥ २६ ॥ एवं विचिन्त्य राजाऽथ ववले स्वपुरं प्रति । चम्पायामागतो राज्यं स पूर्ववदपालयत् ॥२७॥ बहुमार्गं समुल्लङ्घ्य तपनातपतापितः । गजोऽथ सलिलापूर्णं प्रविवेश सरोवरम् ॥२८॥ स तत्र सलिलोल्लोलैर्लोलैश्चिक्रीड शीतलैः । पद्मावत्यपि सातङ्कमुत्ततार शनैः शनैः ||२९|| तरन्ती राजहंसीव निःससार सरोवरात् । साऽपश्यत् सर्वतः शून्यं मृगीवास्वजनं वनम् ||३०|| कान्दिशीकाऽथ सा दध्यौ का कर्मोपस्थितिर्मम ? | ययेदृशीं दशां सद्यः प्रापिताऽहं सुदुस्सहाम् ॥३१॥ किं करोमि क्व गच्छामि भविता मेऽत्र का गतिः ? | विषद्येत्यादि सा पश्चादुचितां धीरतां दधौ ||३२|| प्रमृज्याश्रूणि पाणिभ्यां चित्ते सैवं व्यचिन्तयत् । शोकं विवेकमुक्तानामुचितं किं करोम्यहम् ? ||३३|| नानेकैः शोक-सन्तापैर्न विलापैर्न रोदनैः । कदाचिन्मुच्यते प्राणी पुरातनकुकर्मणा ॥ ३४ ॥ मध्ये व्याघ्रादिजीवानां कश्चिद् व्यापादयिष्यति । परलोकस्य पाथेयं किञ्चिद् धर्मं करोमि तत् ॥३५॥ अर्हन्तः शरणं सन्तु सिद्धाश्च शरणं मम | साधवः शरणं शुद्धो धर्मोऽस्तु शरणं मम ॥ ३६॥ अशिश्रयदसावित्थं चतुः शरणमञ्जसा । पापान्यालोचयामास निन्दन्ती स्वं मुहुर्मुहुः ||३७|| Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy