SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २८७ नवमं नमिप्रव्रज्याख्यमध्ययनम् प्रौढमत्तगजारूढा नृपनेपथ्यभूषिता । भर्ना धृतातपत्रेण राजिता राजकावृता ॥१०॥ ददाना बहुदानानि गीतानि च निशृण्वती । विहरामि कदा हन्त ! स्वोद्यानेषु यदृच्छया ॥११॥ युग्मम् तस्मिन्नपूर्णे क्षामाऽसौ पृष्टा राज्ञाऽमुमभ्यधात् । सुखसाध्यः कियानेष इत्युक्त्वोत्थाय भूधवः ।।१२।। पट्टद्विपं समारुह्य देवीमारोहयत् पुरः । दधावधिशिरश्छत्रं स्वयं तस्याः स हर्षतः ॥१३।। शुभाकारैरलङ्कारैर्भासमानैरलङ्कृता । परितः परिवारेण परीतोद्यानमाप सा ॥१४॥ यशोनिदानदानानि ददाना सा यथेप्सितम् । शुशुभे कल्पवल्लीव शैलशृङ्गसमुच्छ्रिता ॥१५॥ अस्मिन्नवसरे सारासारमेघाभिषेकतः । सर्वतः सुरभिर्गन्ध उदच्छलदिलातलात् ॥१६।। तं तथाविधमाघ्राय स्मृत्वा विन्ध्याचलाटवीम् । मतङ्गजो मदोन्मत्तो वेगात् तं प्रत्यधावत ॥१७॥ भटैरस्खलितः शीघ्रं वेगवांश्चण्डवायुवत् । राज्ञी राजानमादाय स जगाम महाटवीम् ॥१८॥ वटवृक्षं पुरो दृष्ट्वा राजीं तत्राह भूपतिः । वटस्याधस्तरां याति यदाऽसौ दयिते ? गजः ।।१९।। लम्बमानास्तत्प्ररोहास्तत्रादेयास्त्वया रयात् । यथा तदवलम्बेन स्थित्वा यावः पुरं पुनः ॥२०॥ इत्युक्त्यनन्तरं वेगात् तत्र प्राप्ते गजे नृपः । आललम्बे लब्धलक्षः प्रलम्बां वटवल्लरीम् ॥२१॥ राज्ञी तु स्त्रीस्वभावेनालब्धलक्षतयाकुला । तच्छाखां नाशकद् धर्तुं गजारूढैव साऽगमत् ।।२२।। नरेन्द्रोऽपि विलक्षोऽभूत् सम्भ्रान्तनयनद्वयः । स्फालच्युतो द्रुमालम्बी शाखामृग इवाञ्जसा ॥२३॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy