SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याख्यमध्ययनम् इह पूर्वाध्ययने निर्लोभत्वमुक्तम्, तदनुतिष्ठत इहैवेन्द्रादिपूजोपजायते इति दर्श्यते इत्यनेन सम्बन्धेन नमिप्रव्रज्याख्यं नवममध्ययनमारभ्यते प्रस्तुतं चरितं यद्यप्यत्र भूमिभुजो नमः । तथापि तद्वदेवान्ये विश्रुता वीरशासने ॥१॥ प्रत्येकबुद्धाश्चत्वारः करकण्डवादयोऽभवन् । समकालजनुर्दीक्षा-ज्ञान-सिद्धिसमागमाः ॥२॥ इति प्रसङ्गतस्तेषामपि वक्तव्यतोच्यते । श्रोतृवैराग्यपुष्ट्यर्थं यथाश्रुतमविस्तरम् ॥३॥ दृष्ट्वा गामिन्द्रकेतुं च वलयं चाम्रपादपम् । प्रत्येकं करकण्ड्वाद्या बुद्धोपाददिरे व्रतम् ॥४॥ तत्रादौ कथ्यते पुष्टं वृषभं प्रेक्ष्य तत्क्षणम् । प्रबुद्धस्य प्रसिद्धस्य करकण्डोः कथानकम् ॥५॥ भूभामिनीहृदि स्फारहारश्रीसोदरा वरा । वैरिवर्गकृताकम्पा चम्पानाम्न्यभवत् पुरी ॥६।। तत्र धात्रीधवः सत्रं नीतेः प्रीतः प्रजाहितः । स्वर्गे स्वर्गाधिप इव दधिवाहन इत्यभूत् ॥७॥ पद्मावती पट्टराज्ञी तस्यासीच्छीलसुन्दरा । सती सर्वावरोधाग्र्या सुता चेटकभूपतेः ।।८।। अन्यदा सा महादेवी गौं भेजे शुभोदयात् । गर्भस्थार्भकमाहात्म्यादुत्पेदे दोहदो हृदि ॥९॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy