SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ अष्टमं कापिलीयमध्ययनम् २८३ व्याख्या-इह जीवितमसंयमजीवितमनियम्य तप:क्रियादिनाऽनियन्त्र्य प्रभ्रष्टाश्च्युताः समाधियोगेभ्यश्चित्तस्वास्थ्यप्रधानकायादिव्यापारेभ्यः अनियन्त्रितात्मनां हि पदे पदे तद्भशसम्भव इति ते पूर्वोक्ताः कामभोगेषु रसेषु च गृद्धा उपपद्यन्ते जायन्ते आसुरे काये असुरसम्बन्धिनि निकाये । एवंविधाः किञ्चिदनुष्ठानं कुर्वाणा अप्यसुरेष्वेवोत्पद्यन्ते इति भावः ॥१४॥ ततश्च्युताः किमाप्नुवन्तीत्याह तत्तो वि य उवट्टित्ता संसारं बहुं अणुपरियडंति । बहुकम्मलेवलित्ताणं बोही होइ सुदुल्लहा तेसिं ॥१५॥ व्याख्या-ततोऽपि चासुरनिकायादुद्वृत्त्य निःसृत्य संसारं चतुर्गतिरूपं बहुं विपुलं बहुप्रकारं वा चतुरशीतियोनिलक्षतया 'अणुपरियडंति'त्ति अनुपर्यटन्ति सातत्येन पर्यटन्तीत्यर्थः । किञ्च बहुकर्मलेपलिप्तानां बोधिः प्रेत्य जिनधर्मावाप्तिर्भवति सुदुर्लभा तेषां ये लक्षणादि प्रयुञ्जतेऽत उत्तरगुणाराधनायां यतितव्यमिति भावः ॥१५॥ लोभाकुलस्यात्मनो दुष्पूरतामाह कसिणं पि जो इमं लोगं पडिपुन्नं दलेज्ज इकस्स । तेणावि से न तुसिज्जा इइ दुप्पूरिए इमे आया ॥१६॥ व्याख्या कृत्स्नमपि सम्पूर्णमपि यः सुरेन्द्रादिरिमं प्रत्यक्षं लोकं परिपूर्णं धनधान्यादिभृतं 'दलेज्ज'त्ति दद्यात् । किं बहुभ्यो नेत्याह-'इक्कस्स' त्ति एकस्मै कस्मैचिदाराधकाय तेनापि धनादिभृतलोकदायकेन हेतुना 'से' त्ति स न सन्तुष्येन्न हृष्येत्, को भावो ममैतावद् ददताऽनेन परिपूर्णता कृतेति न तुष्टिमाप्नुयात् । उक्तञ्च “न वह्निस्तृण-काष्ठेषु नदीभिर्वा महोदधिः । न चैवात्माऽर्थसारेण शक्यस्तर्पयितुं क्वचित्" ॥१॥ इत्येवमर्थे एवमुक्तन्यायेन दुःखेन पूरयितुमशक्यो दुष्पूरकोऽयमात्मा । एतदिच्छायाः पूरयितुमशक्यत्वादिति ॥१६॥ किमिति न सन्तुष्यतीत्याह जहा लाहो तहा लोहो लाहा लोहो पवड्डई । दोमासकयं कज्जं कोडीए वि न निट्ठियं ॥१७॥ व्याख्या-यथा लाभोऽर्थावाप्तिस्तथा लोभो भवतीति शेषः । किमित्येवमित्याह-लाभाल्लोभः प्रवर्धते । यथा तथेत्यत्र वीप्सा गम्यते ततो यथा यथा लाभस्तथा तथा JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy