SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणाणि - १ स्थविरकल्पिक इति ज्ञापितम् । जिनकल्पी तु प्रान्तान्येव तस्य तथैवानुज्ञानात् । पुनः क्रियाऽभिधानं च न सकृदेवाप्तान्यमूनि सेवेत, किन्त्वनेकधाऽपीति ख्यापनार्थमिति ॥१२॥ शुद्धैषणा स्वात्मानं स्थापयेदित्युक्तमतो विपर्यये बाधकमाह जे लक्खणं च सुविणं च अंगविज्जं च जे पउंजंति न हु ते समणा वुच्छंति एवं आयरिएहिं अक्खायं ॥१३॥ व्याख्या - ये साधवो लक्षणं पुरुषादीनाम्, यथा44 पद्म- -वज्राङ्कुश- -च्छत्र-शङ्ख-मत्स्यादयस्तले । २८२ स्वप्नं च शुभाशुभफलसूचकं, यथा— पाणि-पादेषु दृश्यन्ते यस्यासौ श्रीपतिर्भवेद्" ॥१॥ इत्यादि । "देहि-छत्त-हेम- चामर-वत्थ-न्न-फलं च दीव- तंबोलं । संख ज्झओ य वसहो दिट्ठो लद्धो धणं देइ ॥ १ ॥ - पढमंमि वासफलया बीए जामंमि होइ छम्मासा । तइयंमि तिमासफला चरमे सज्जफला होंति" ॥२॥ इत्यादि । अङ्गविद्यां शुभाशुभसूचिकां प्रणव- मायाबीजादिवर्णन्यासात्मिकां वा यथा— " सिरफुरणे किर रज्जं पियमेलो होइ बाहुफुरणंमि । अच्छफुरणंमि यपियं अहरे पियसंगमो होई" ॥१॥ इत्यादि । ये प्रयुञ्जते तद्वाचकशास्त्राणि व्यापारयन्ति, न हु नैव ते श्रमणा उच्यन्ते । पुष्टालम्बने तानि व्यापारयन्त्यपि राजसभाकरवीरलताभ्रामकमुनिवत् । पुनर्ये इत्युपादानं लक्षणादिभिः पृथक् पृथक् सम्बन्धार्थम् । एवमार्यैराख्यातमुपदिष्टम् ॥१३॥ एवंविधानामुत्पत्तिमाह— Jain Education International 2010_02 इह जीवियं अनियमेत्ता पब्भट्ठा समाहिजोएहिं । ते कामभोगरसगिद्धा उववज्जंति आसुरे काए ॥१४॥ १. दधि-च्छत्र- हेम- चामर - वस्त्रान्न - फलं च दीप - ताम्बूले । शङ्खो ध्वजश्च वृषभो दृष्टो लब्धो धनं ददाति ॥ १॥ प्रथमे वर्षफला द्वितीये यामे भवन्ति षण्मासाः । तृतीये त्रिमासफलाश्चरमे सद्यफला भवन्ति ॥२॥ २. शिरः स्फुरणे किल राज्यं प्रियमेलो भवति बाहुस्फुरणे । अक्षिस्फुरणे च प्रियमधरे प्रियसङ्गमो भवति ॥१॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy