________________
अष्टमं कापिलीयमध्ययनम्
एतद्राज्ञीधर्मपुत्रो वसन्तो भूपसम्मतः ।
श्राद्धधर्मं गुरोः पार्श्वे लात्वा स्वःसुखभागभूत् ॥२३॥
इत्थं चाभयदानस्य श्रुत्वा फलमनुत्तरम् । भवन्तोऽप्यत्र भो भव्याः ! सादरा भवताद्भुते ||२४||
इत्यभयदाने राज्ञीकथा ||१०||
मूलगुणानुक्त्वोत्तरगुणमुख्यैषणासमितिमाह—
सुद्धेसणाइ नच्चा णं तत्थ ठविज्ज भिक्खू अप्पाणं । जायाए घासमेसिज्जा रसगिद्धे न सिया भिक्खा ॥ ११ ॥
व्याख्या - शुद्धा निर्दोषा एषणा उद्गमाद्याः शुद्धैषणा ज्ञात्वा तत्र तासु स्थापयेद् भिक्षुरात्मानम् । को भावोऽनेषणीयत्यागेनैषणाशुद्धमेव ग्राह्यमिति । किमर्थम् ? 'जायए' त्ति यात्रायै संयमनिर्वाहार्थं ग्रासमेषयेद् गवेषयेद् भोजयेच्च । उक्तञ्च—
"जेह सगडक्खो चंगो कीरड़ भरवहणकारणा नवरं । तह गुणभरवहणत्थं आहारो बंभयारीणं" ॥१॥
भुञ्जानश्च रसेषु मधुरादिषु गृद्धो रसगृद्धो न स्याद् भिक्षादो भिक्षुरनेन रागत्याग उक्तस्तद्विपर्यये द्वेषस्यापि सम्भवात् तत्त्यागोऽप्युक्तो ज्ञेयो राग-द्वेषरहितो भुञ्जीतेति भावः । यतः—“ रौगद्दोसविमुक्को भुंजिज्जा निज्जरापेहि" त्ति ॥११॥
अगृद्धश्च यत् कुर्यात् तदाह
पंताणि चेव सेविज्जा सीयपिंडं पुराणकुम्मासं ।
अदु बक्कसं पुलागं वा जवणट्ठाए निसेवए मंथुं ॥१२॥
२८१
व्याख्या - प्रान्तान्येव नीरसान्येव सेवेत भुञ्जीत न तु स्निग्धानि मोहोदयहेतुत्वात् तेषाम् । तान्येवाह - शीतपिण्डं शीताहरम् । शीतोऽपि शाल्यादिः सरसः स्यादित्याह— पुराणा बहुकालधृताः कुल्माषास्ते ह्यतिनीरसाः स्युर्जीर्णमुद्गादीनामुपलक्षणम् । 'अदु' इत्यथवा बक्कसं मुद्गादिनि: पीडितरसं पुलाकमसारं वल्ल - चनकादि वा । किमर्थम् ? यापनार्थं निर्वाहार्थं निषेवेतोपभुञ्जीत । 'मंथुं' बदरादिचूर्णमस्याप्यतिरूक्षत्वात् प्रान्तत्वम् । किञ्च यापनार्थमित्यनेन यदि वातोद्रेकादिना देहयापना न स्यात् तर्हि स्निग्धाद्यपि सेवेत १. यथा शकटाक्षश्चङ्गः क्रियते भरवहनकारणान्नवरम् । तथा गुणभरवहनार्थमाहारो ब्रह्मचारिणाम् ॥१॥
२. राग-द्वेषविमुक्तो भुञ्जीत निर्जरापेक्षी इति ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org