________________
अष्टमं कापिलीयमध्ययनम्
२७९
कर्मोदयवत्सु द्वीन्द्रियादिषु, स्थावरेषु च पृथिव्यादिषु नो नैव तेषु रक्षणीयेषु आरत कुर्याद् दण्डं वधात्मकं मनसा वचसा कायेन चशब्दान्न कारयेन्नाप्यनुमन्येत । एवोऽवधारणे ।
"सेव्वे वि दुक्खभीरू सव्वे वि सुहाभिलासिणो सत्ता । सव्वे वि जीवणपिया सव्वे मरणाउ बीहंति ॥ १ ॥
वरमन्न - भोगदाणं धण-धन्न - हिरण्ण-रज्जदाणं वा । न कुणइ तं मणहरिसं जायइ जं अभयदानाओ" ॥२॥
इति मत्वा कस्यापि जन्तोर्हिसां न कुर्यादिति भावः अभयदानोदाहरणम्द्रुमाभिधः क्षितीशोऽभूत् श्रीवसन्तपुरे पुरे । प्रियङ्करादिदयिताशतपञ्चकवल्लभः ॥१॥ सलोप्त्रं तस्करं तत्रारक्षकैर्धृतमन्यदा । शूलायां दुःखमूलायां वध्यमादिष्टवान् नृपः ॥२॥ तावत् प्रियङ्करा राज्ञी याचित्वैकाहमाप्य तम् । भूपान्नीत्वा स्वकावासमभ्यङ्गोद्वर्तनादिकम् ॥३॥ स्नानं विलेपनं भुक्तिं सद्वासः परिधापनम् । सर्वाभरणभूषां च भोगान् पञ्चाप्यचीकरत् ॥४॥ युग्मम् तथैव स्पर्धयाऽन्याभिरपि भूपपुरन्ध्रिभिः । अरक्षि मारणात् सोऽह्नामेकोनशतपञ्चकम् ॥५॥ अथान्त्याऽऽह प्रिया भूपं ममाप्येषोऽर्प्यतां प्रभो ! | पङ्क्ति न वञ्चयन्त्येव सन्तो हि समताजुषः ||६|| नित्यशो ऽभयदानेन देहि मेऽमुं प्रसीद माम् । नान्यत् किमपि मे दत्तमेतावन्तमनेहसम् ||७|| तत्कारुण्यान्नृपस्तुष्टः पुष्टो दिष्ट्येदमूचिवान् । दत्तो मया त्वयं तुभ्यं यावज्जीवं हि जीवतात् ॥८॥
१. सर्वेऽपि दुःखभीरवः सर्वेऽपि सुखाभिलाषिणः सत्त्वाः । सर्वेऽपि जीवनप्रियाः सर्वे मरणाद् बिभ्यति ॥१॥ वरमन्न-भोगदानं धन-धान्य- हिरण्य- राज्यदानं वा । न करोति तद् मनोहर्षं जायते यदभयदानतः ॥ २॥
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org