________________
२७८
उत्तरज्झयणाणि-१ किमेवं सर्वेऽपि तरन्ति ?, नेत्याह
समणा मु एगे वयमाणा पाणवहं मिया अयाणंता ।
मंदा नरयं गच्छंति बाला पावियाहिं दिट्ठीहिं ॥७॥ व्याख्या-श्रमणाः साधवः मु इत्यात्मार्थे वयमेके केचित् कुतीर्थ्या वदमानाः स्वाभिप्रायमुदीरयन्तः प्राणवधं मृगा अज्ञा अजानन्त इति के प्राणिन: के वा केषां प्राणाः कथं वा वध इत्यनवबुध्यमाना अनेनाद्यव्रतमपि न जानन्त्यासतां शेषाणीत्यत एव मन्दा मिथ्यात्वादिरोगग्रस्तया नरकं गच्छन्ति । बाला विवेकविकला: पापिकाभिः पापहेर्भिदृष्टिभिर्दर्शनाभिप्रायरूपाभिः "ब्रह्मणे ब्राह्मणमिन्द्राय क्षत्रं मरुद्भ्यो वैश्यं तपसे शूद्रमालभेत" इत्यादिकाभिरिति ॥७॥ अत एवाह
न हु पाणवहं अणुजाणे मुच्चिज्ज कयाइ सव्वदुक्खाणं ।
एवारिएहिं अक्खायं जेहिं इमो साहुधम्मो पन्नत्तो ॥८॥ व्याख्या-नैव प्राणिवधं मृषावादाधुपलक्षणमिदम् । अपेलृप्तत्वादनुजानन्नप्यास्तां कुर्वन् कारयन् वा मुच्येत कदाचिदपि सुब्ब्यत्ययात् सर्वदुःखैः शारीर-मानसैः । एवमुक्तप्रकारेणार्यैरहदादिभिराख्यातं यैरयं साधुधर्मो हिंसानिवृत्त्यादिरूपः प्रज्ञप्तः प्ररूपितोऽयमित्यनेनात्मनि वर्तमानं प्रबोध्य चौराणां प्रत्यक्षं साधुधर्ममुपदिशति ॥८॥ ततः किं कृत्यमित्याह
पाणे अ नाइवाइज्जा से समिए त्ति वुच्चई ताई ।
तओ से पावयं कम्मं निज्जाइ उदयं व थलाओ ॥९॥ व्याख्या-प्राणान् नातिपातयेत् स्वयमिति शेषः । चशब्दात् कारणानुमत्योर्निषेधो मृषावादाधुपलक्षणमिदम् । य इति गम्यत्वाद् यः प्राणान् नातिपातयिता 'से'त्ति स समित इत्युच्यते । किम्भूतः ? त्रायी प्राणित्राता । ततः समितात् साधोः से इत्यथ पापकमशुभं कर्म निर्याति निर्गच्छति । किमिव कुतः ? उदकमिव स्थलादत्युन्नतप्रदेशादिति ॥९॥ एतदेव स्पष्टयति
जगनिस्सिएहिं भूएहिं तसनामेहि थावरेहिं च ।
नो तेसिमारभे दंडं मणसा वयस कायसा चेव ॥१०॥ व्याख्या-जगन्निश्रितेषु लोकाश्रितेषु भूतेषु जन्तुषु त्रसनामसु त्रसनाम
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org