________________
अष्टमं कापिलीयमध्ययनम्
२७७ यद् भाषते तदाह
सव्वं गंथं कलहं च विप्पजहे तहाविहं भिक्खू ।
सव्वेसु कामजाएसु पासमाणो न लिप्पई ताई ॥४॥ व्याख्या-सर्वं ग्रन्थं बाह्यं धनाद्यान्तरं मिथ्यात्वादि कलह क्रोधं चशब्दान् मानादींश्च विप्रजह्यात् परित्यजेत् तथाविधं कर्मबन्धहेतुं न तु धर्मोपकरणमपीत्यर्थो भिक्षुः साधुः । ततः किं स्यात् ? सर्वेषु कामजातेषु कामप्रकारेषु 'पासमाणो'त्ति प्रेक्ष्यमाणोऽतिकटुकं तद्विषयदोषमिति गम्यम् । न लिप्यते कर्मणा त्रायते रक्षत्यात्मानं दुर्गतेरिति त्रायी ॥४॥ ग्रन्थात्यागे दोषमाह
भोगामिसदोसविसन्ने हियनिस्सेयसबुद्धिविवज्जत्थे ।
बाले य मंदिए मूढे बज्झई मच्छिया व खेलमि ॥५॥ व्याख्या-भोगा एव गृद्धिहेतुत्वादामिषं तदेव दोषो भोगामिषदोषस्तत्र विषण्णो विशेषेण मग्नः । हिते पथ्ये निःश्रेयसे मोक्षे बुद्धिस्तत्प्राप्त्युपायविषया मतिः सा विपर्यस्ता विपरीता यस्य स हितनिःश्रेयसबुद्धिविपर्यस्तः । बालश्चाज्ञो मन्दो धर्मकार्यानुद्यतो मूढो मोहाकुलो बध्यते श्लिष्यतेऽर्थात् कर्मणा मक्षिकेव खेले श्लेष्मणि रजसेति गम्यम् । यथैषा तद्गन्धादिभिराकृष्टा खेले च मग्ना रेण्वादिभिर्बध्यते एवं जीवोऽपि कर्मणेति भावः ॥५॥ भोगानां दुस्त्यागतामाह
दुपरिच्चया इमे कामा नो सुजहा अधीरपुरिसेहिं ।
अह संति सुव्वया साहू जे तरंति अतरं वणिया व ॥६॥ व्याख्या दुष्परित्यजा इमे कामाः शब्दादयो नो नैव सुहाना: सुखत्याज्या विषमिश्रितमधुरान्नवत् कैः ? अधीरसत्त्वैनरैधीरैः सुत्यजा एवेति । यच्चेह दुष्परित्यजा इत्युक्त्वा पुनर्नो सुहाना इत्यत्यन्तदुस्त्यजत्वख्यापनार्थमुक्तम् । अथ सन्ति विद्यन्ते सुव्रताः साधवो ये तरन्ति पारप्राप्त्याऽतिक्रामन्ति कम् ? अतरं तरीतुमशक्यं विषयगणं भवं वा क इव ? वणिज इव वाशब्दस्येवार्थत्वाद् यथा वणिजोऽतरं समुद्रं पोतेन तरन्ति, तथैतेऽपि धीरा व्रतादिना भवमिति । यतः
"विषयगणः कापुरुषं करोति वशवर्तिनं न सत्पुरुषम् । बध्नाति मशकमेव हि लूतातन्तुर्न मातङ्गम्" ॥१॥ इति ॥६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org