________________
२७६
उत्तरज्झयणाणि-१
तद्यथा
अधुवे असासयंमी संसारंमि दुक्खपउराए ।
किं नाम हुज्ज तं कम्मयं जेणाहं दुग्गइं न गच्छेज्जा ॥१॥ व्याख्या–अध्रुवे एकास्पदाप्रतिबद्धे अशाश्वते अनित्ये सर्वमिह हि राज्याद्यशाश्वतमेव । तथाऽऽह हारिल्लवाचक:
"चलं राज्यैश्वर्यं धनकनकसार: परिकरो, नृपात् तद् वाल्लभ्यं चलममरसौख्यं च विपुलम् । चलं रूपारोग्यं चलमिह वरं जीवितमिदं;
जनो दृष्टो योऽसौ जनयति सुखं सोऽपि चपलः" ॥१॥ क्व ? संसारे प्रचुरकाणि बहूनि दुःखानि शारीरादीनि यत्र स तथा तस्मिन् पूर्वपरनिर्देश: प्राकृतत्वात् । 'किमिति प्रश्ने, नामेत्यलङ्कारे' भवेत् स्यात् तत् कर्मकमनुष्ठानं येन कर्मणाऽहं दुर्गतिं नरकादिकां न गच्छेयमत्र तस्यर्षेः संशयाभावेऽपि दुर्गत्यभावेऽपि च प्रबोध्यपूर्वसङ्गतिकापेक्षमित्थमभिधानम् ॥१॥
एवं च तालकुट्टनपूर्वं तैस्तद्धृवके प्रत्युद्गीते भगवानाहविजहित्तु पुव्वसंजोगं न सिणेहं कहिंचि कुग्विज्जा ।
असिणेह सिणेहकरेहिं दोस-पओसेहि मुच्चए भिक्खू ॥२॥
व्याख्या-विहाय त्यक्त्वा पूर्वैः पूर्वपरिचितमात्रादिभिरुपलक्षणाद् धनदिभिः संयोगं सम्बन्धं न स्नेहमभिष्वङ्ग क्वचिद् बाह्याभ्यन्तरे वस्तुनि कुर्वीत । तथा च को गुणः ? इत्याह-अस्नेहः प्रतिबन्धरहितः 'सूत्रत्वाद् विसर्गलोपः' । स्नेहकरेष्वपि पुत्रादिष्वास्तामन्येषु तादृशोऽसौ दोषैरिह मनस्तापादिभिः प्रदेषैः परत्र च दुर्गत्यादिभिर्मुच्यते भिक्षुः ॥२॥
पुनस्तत्कृत्यमाहतो नाण-दसणसमग्गो हियनिस्सेसाए सव्वजीवाणं । तेसिं विमोक्खणट्ठाए भासई मुणिवरो विगयमोहो ॥३॥
व्याख्या-ततो भाषते मुनिवर इति संटङ्कः । स कीदृक् ज्ञान-दर्शनाभ्यां प्रस्तावात् केवलाभ्यां समग्रः सहितः । किमर्थम् ? इत्याह-हितः पथ्यो भावारोग्यहेतुत्वात, निःश्रेयसो मोक्षस्तदर्थम् । केषां ? सर्वजीवानां 'चस्य गम्यत्वात्' तेषां च पञ्चशतसङ्ख्यचौराणां विमोक्षणार्थमष्टकर्मपृथक्करणार्थं भाषते विगतमोहो यथाख्यातचारित्रवान् ॥३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org