________________
२७३
अष्टमं कापिलीयमध्ययनम्
निशि सोऽथ न सुष्वाप मा यायात् कश्चनापरः । रात्रिशेषे घनेऽद्यापि तदर्युत्थाय चाचलत् ॥४९।। व्रजन्नारक्षकैश्चौर इत्यगृह्यत बन्धनैः । बद्ध्वा प्रसेनजिद्भपसभां निन्येऽरुणोदये ॥५०॥ राजा तदाकृतिं वीक्ष्य नायं दस्युरिदं विदन् । उन्मोच्य बन्धनान्येनमपृच्छत् त्वं कुतोऽसि कः ? ॥५१॥ सोऽप्याचचक्षे सद्भावं का माया नृपतेः पुरः ? । भूधवोऽप्याह सन्तुष्टो यत् त्वं वाञ्छसि तद् ददे ॥५२॥ विमृश्य प्रार्थये राजन्नित्युक्त्वाऽनुमति नृपात् । आदायाशोकवनिकामेत्य ध्यातुमुपाक्रमत् ॥५३।। यर्थितप्रदो भूपः सुबह्वपि तदर्थये । स्वर्णमाषकयुग्मेन नालङ्कारादि सेत्स्यति ॥५४॥ तत् सुवर्णशतं प्रार्थ्यं यद्वैतन्मात्रतो मम ।। गेह-वाहन-यानाद्यो न सर्वो भाव्युपस्करः ॥५५॥ याच्यं हेमसहस्रं तदतोऽपि न भविष्यति । भविष्यड्डिम्भरूपाणां विवाहादिव्ययोऽखिलः ॥५६॥ मार्गयामि ततो लक्षमथवाऽतो भवेत् कथम् ? । दीनोद्धारादिकं बन्धुपोषणं कीर्युपार्जनम् ॥५७।। कोटि कोटिशतं कोटिसहस्रं राज्यमेव वा । तद् याचे ध्यातुरित्यादि निवृत्तिं नाप तस्य तृट् ।।५८।। सत्कर्मणः परिपाकात् कस्याप्याकस्मिकादथ । तृष्णातिशयनिर्विण्णो विरागादित्यचिन्तयत् ॥५९॥ "स्वर्ण-माषकयोः कार्ये प्राप्तस्यापि न मे मनः । कोट्यादौ लभते स्थैर्यमहो ! लीलायितं तृषः ॥६०॥ मात्रादेशेन विद्याऽर्थमिहायातोऽस्मि यत् पुनः । ही ! दास्यामनुरक्तोऽस्मि तत् कियच्छोच्यतेतराम् ? ||६१।। विद्याऽऽयं विगणय्योच्चैरवधीर्य प्रसूमपि । औपाध्यायं हितं वाक्यं कुलं चोपेक्ष्य निर्मलम् ॥६२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org