SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २७१ अष्टमं कापिलीयमध्ययनम् गायत्र्याशिषमाधत्त वद विप्र ! प्रयोजनम् । इत्युक्ते श्रेष्ठिनौदार्यगुणपात्रेण सोऽभणत् ॥२२॥ मित्रसूरेष कौशाम्ब्या विद्यार्थ्यपमदागमत् । पाठयिष्याम्यहं विद्यां किन्तु मे नास्ति भोजनम् ॥२३॥ विद्योपग्रहमाधेहि तत् त्वं भुक्तिप्रदानतः । एवं हि ते महत् पुण्यं यत उक्तं विचक्षणैः ॥२४॥ "पठति पाठयते पठतामसौ वसन-भोजन-पुस्तक-वस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदेव भवेन्नरः" ॥२५॥ श्रेष्ठ्यपि प्रतिपेदे तद् भूदेवस्य हितं वचः । अथैष तद्गृहे भुङ्क्तेऽधीते च सततं द्विजात् ॥२६।। नियुक्ता श्रेष्ठिना दासी पादशौचादिकर्मणि । कपिलस्याखिलां तप्ति चक्रे च परिवेषणम् ॥२७|| स हास्यवान् स्वभावेन युवा बहुविकारवान् । स्मरस्य दुर्जयत्वेन क्रमाद् दास्यामरज्यत ॥२८॥ साऽपि तत्रानुरक्ताऽभूदिति गाढानुरागयोः । तयोः कामवशित्वेन शून्ययोर्यान्ति वासराः ॥२९।। दास्यभाणीदिमं नान्यस्त्वां विना मेऽस्ति वल्लभः । न किञ्चित् तव किन्त्वस्ति येन स्यान्मेऽम्बरादिकम् ॥३०॥ सद्भावस्तु त्वयि स्थायी तद्वासो मूल्यहेतवे अन्याननुचरन्त्यै मे रुषितव्यं न हि त्वया ॥३१॥ तेनाप्यभ्युपजग्मे तद् रहः प्रीतिषु को हठ: ? । स तु व्यग्रमना एव पपाठ प्रणयात् ततः ॥३२॥ इन्द्रदत्तोऽथ तं प्राह किं शून्य इव लक्ष्यसे ? । वत्स ! नान्यमनस्कानां विद्याः सिध्यन्ति दुर्लभाः ॥३३।। उक्तञ्च "नानुद्योगवता न च प्रवसता मानं न चोत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेषिणा । न भूभङ्गकटाक्षसुन्दरमुखीं सीमन्तिनीं ध्यायता; लोके ख्यातिकरः सतां बहुमतो विद्यागुणः प्राप्यते" ॥३४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy