________________
२६८
उत्तरज्झयणाणि-१ व्याख्या-ऋद्धिः स्वर्णादिषुतिर्दीप्तिर्यशः पराक्रमजा प्रसिद्धिर्वो गाम्भीर्यादिगुणश्लाघा गौरत्वादिर्वाऽऽयुर्जीवितं सुखमीप्सिताप्तावाल्हादः । अनुत्तरं प्रधानमिति सर्वत्र योज्यम् । भूयः पुनस्तान्युत्तराणि भवन्ति यत्र मनुष्येषु तत्र स उत्पद्यते ॥२७॥
एवं कामानिवृत्तो बालो विपरीतस्तु पण्डित इत्यर्थादुक्तम् । अथानयोः स्वरूपं फलं चाह
बालस्स पस्स बालत्तं अहम्मं पडिवज्जिया । चिच्चा धम्मं अहम्मिटे नरए उववज्जई ॥२८॥ धीरस्स पस्स धीरत्तं सव्वधम्माणुवत्तिणो ।
चिच्चा अहम्मं धम्मिटे देवेसु उववज्जई ॥२९॥ अन्योाख्या-बालस्याज्ञस्य पश्य प्रेक्षस्व बालत्वम् । अधर्मं विषयासक्तिरूपं प्रतिपद्याङ्गीकृत्य त्यक्त्वा धर्मं विषयनिवृत्तिरूपमधर्मिष्ठो नरकेऽन्यत्र दुर्गतौ वोत्पद्यते । धीरो धीमान् परीषहादिभ्योऽक्षोभ्यो वा तस्य पश्य धीरत्वम् । सर्वधर्म क्षान्त्याद्यनुवर्तत इत्येवंशीलः सर्वधर्मानुवर्ती तस्य । कथमित्याह-त्यक्त्वा अधर्म विषयाभिष्वङ्गं धर्मिष्ठो देवेषूत्पद्यते इति गाथाद्वयार्थः ॥२८-२९॥ यद् विधेयम्, तदाह
तुलियाण बालभावं अबालं चेव पंडिए ।
चइऊण बालभावं अबालं सेवई मुणी ॥३०॥ त्ति बेमि ॥ व्याख्या-तोलयित्वा गुणदोषवत्तया परीक्ष्या बालभावं बालत्वं, अबालं भावप्रधानत्वादबालत्वम् । 'चः समुच्चये', एवेत्यनुस्वारलोपे एवमुक्तप्रकारेण पण्डितस्त्यक्त्वा बालभावम्, अबालत्वं सेवते मुनिरिति । इति ब्रवीमीति पूर्ववत् ॥३०॥ ग्रं० २९४ अ० १६॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायाम्
उरभ्रीयं सप्तमध्ययनं समाप्तम् ॥७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org