________________
सप्तममौरभ्रीयमध्ययनम्
२६७ मनुष्यसम्बन्धिनः सन्निरुद्धे आयुषि न पल्योपमादिवत् द्राघीयसि । अनेन मनुष्यायुषोऽल्पतया सोपक्रमतया वा कामानामप्यल्पत्वं समृद्ध्याद्यल्पतोपलक्षणमिदम् । दिव्यकामानां तु जलधितुल्यत्वमर्थादुक्तम् । 'कस्स हेउ'त्ति प्राकृतत्वात् कं हेतुं पुरस्कृत्याश्रित्यालब्धस्य च धर्मस्य लाभो योगो लब्धस्य च तस्य पालनं क्षेमस्तयोर्द्वन्द्वे योगक्षेमं तन्न संवित्ते न जानीते जन इति शेषः । तदसंवित्तौ हि मनुष्यविषयाभिष्वङ्ग एव हेतुस्ते च धर्मप्राप्यभोगापेक्षया कुशाग्रबिन्दुप्राया एव ततस्तत्त्यागाद् विषयाभिलाषिणापि धर्मे एव यतितव्यमिति । इत्थं दृष्टान्तपञ्चकमुक्तम् । तत्र प्रथममुरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वम् १। काकिण्याम्रफलदृष्टान्तेन तत्तुच्छत्वम् २-३। वणिग्व्यवहारोदाहरणेनायव्ययतोलना ४। साऽपि च कथं कर्तव्येति समुद्रदृष्टान्तस्तत्र दिव्यकामानां समुद्रजलोपमत्वम् ५। तथा च तदुपार्जनं महानायोऽनुपार्जनं तु महान् व्यय इति दशितमेव ॥२४॥ इह योगक्षेममासंवेदने कामानिवृत्तिरेव स्यादिति तद्दोषमाह
इह कामानियट्टस्स अत्तटे अवरज्झई ।
सुच्चा नेयाउयं मग्गं जं भुज्जो परिभस्सई ॥२५॥ व्याख्या-इह मनुष्यत्वे जिनमते वा प्राप्ते कामेभ्योऽनिवृत्तोऽनुपरतः कामानिवृत्तस्तस्यात्मार्थः स्वर्गादिरपराध्यति धातुनामनेकार्थत्वान्नश्यति दुर्गतिगमनेन । कथं कामानिवृत्तिरित्याह-श्रुत्वोपलक्षणात् प्रतिपद्य च नैयायिकं मार्गं सम्यग्दर्शनादिमुक्तिपथं यद् यस्माद् भूयः पुनर्भश्यति कामानिवृत्तेरिति शेषः । जिनागमश्रवणात् कामनिवृत्तोऽपि गुरुकर्मत्वात् प्रतिपतति । ये श्रुत्वाऽपि न प्रतिपद्यन्ते न शृण्वन्ति च ते कामानिवृत्ता एवेति भावः ॥२५॥ कामनिवृत्तस्य गुणमाह
इह कामनियट्टस्स अत्तटे नावरज्झई ।
पूइदेहनिरोहेणं भवे देवे त्ति मे सुयं ॥२६॥ व्याख्या-इह नरत्वे कामनिवृत्तस्यात्मार्थः स्वर्गादि पराध्यति न भ्रश्यति । यतः पूतिः क्वथितो देहोऽर्थादौदारिकं शरीरं तस्य निरोधोऽभावस्तेन भवेत् स्यात् कामनिवृत्तो यतिर्देवः सौधर्मादिषु सिद्धो वा इति मे मया श्रुतं गुरुभ्य इति ॥२६॥ यदसावाप्नोति तदाह
इड्डी जुई जसो वन्नो आउं सुहमणुत्तरं । भुज्जो जत्थ मणुस्सेसु तत्थ से उववज्जई ॥२७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org