SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ सप्तममौरभ्रीयमध्ययनम् २६५ एवं जियं सपेहाए तुलिया बालं च पंडियं । मूलियं ते पवेसंति माणुसं जोणिमिति जे ॥१९॥ व्याख्या-एवमुक्तनीत्या जितं लोलतया शाठ्येन च देवत्वमनजत्वे हारितं बालं संप्रेक्ष्य सम्यगालोच्य । तथा तोलयित्वा गुणदोषवत्तया परिभाव्य बालं चास्य भिन्नक्रमत्वात् पण्डितं च तद्विपरीतमर्थान्मनुष्यदेवगतिगामिनम् । तथा च मौलिकं मूलधनं ते प्रवेशयन्ति मूलप्रवेशकवणिक्तुल्यास्त इत्याशयः । ये मानुषीं योनिमायान्त्यागच्छन्ति बालत्वत्यागेन पण्डितत्वमासेवमाना इति ॥१९॥ यथाऽथ मानुषर्षी योनमायान्ति तथाऽऽह वेमायाहिं सिक्खाहिं जे नरा गिहि सुव्वया । उर्विति माणुसं जोणिं कम्मसच्चा हु पाणिणो ॥२०॥ व्याख्या-विमात्राभिर्विविधपरिमाणाभिः शिक्षाभिः प्रकृतिभद्रकत्वादिरूपाभिरुक्तं चौपपातिकोपाङ्गे "चउहि ठाणेहिं जीवा मणुयाउयं बंधंति तं जहा । पगइभद्दयाए, पगइविणीययाए, साणुक्कोसयाए अमच्छरियाए त्ति" ॥ ये नरा गृहिणः सुव्रताः सत्पुरुषव्रता देवगतिहेतुश्रुतोक्तव्रतपालनस्यासत्त्वात् ते हि प्रकृतिभद्रकत्वाद्यभ्यासाद् विपद्यपि न विषीदन्ति, सदाचारं नोल्लङ्घन्ते । यतः "विपद्युच्चैः स्थेयं पदमनुविधेयं हि महतां, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः; सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्" ॥१॥ ते किं स्युरित्याह-उपयान्ति मानुषीं योनि सत्यान्यवन्ध्यफलानि कर्माणि ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः । प्राकृतत्वात् कर्मशब्दस्य प्राग् निपातः कर्मसत्या हुर्यस्मात् प्राणिनो निरुपक्रमकर्मापेक्षमिदमिति ॥२०॥ लब्धलाभोपनयमाह जेसिं तु विउला सिक्खा मूलियं ते अइच्छिया । सीलवंता सविसेसा अदीणा जंति देवयं ॥२१॥ १. चतुर्भिः स्थार्जीवा मनुजायुर्बध्नन्ति तद् यथा प्रकृतिभद्रतया प्रकृतिविनीततया, सानुक्रोशतया, अमत्सरितयेति । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy