________________
२६४
उत्तरज्झयणाणि-१ लभन्ते हि नरक-तिर्यक्षु जीवाः स्वकर्मवशतो विविधा आपदः । उक्तञ्च
"छिज्जंति य भिज्जंति य सत्थेहि य अग्गिणा य डझंति । सीउण्हेहिं विलिज्जंति जंति पीलंति नेरइया ॥१॥ छिंदणं भिंदणं भारारोवणं दमणंकणं ।
सीउण्हखुप्पिवासाओ सहते तिरिया दुहं" ॥२॥ किमित्येवमत आह-देवत्वं मानुष्यत्वं च यद् यस्माज्जितो हारितो लोलता मांसादिलाम्पट्यं तद्याप्तत्वात् सोऽपि लोलतेत्युक्तः । शठो विश्वस्तवञ्चकः ततो द्वन्द्वः । इह लोलता पञ्चेन्द्रियवधाधुपलक्षणम् । स च नरकहेतुर्यथोक्तम्
"महारंभयाए महापरिग्गयाए कुणिमाहारेणं ।
पंचिदियवहेणं जीवा नरयाउं कम्मं बंधंति" ॥ शठ इति शाठ्यं तच्च तिर्यग्गतिनिमित्तं यतो "माया तैर्यग्योनस्य" इति । अत्रायमाशयो यतोऽयं बालो लोलतया शाठ्येन च मनुजत्वं मूलरूपं देवत्वं च लाभरूपं हारितोऽतोऽस्य तच्छेदेन नरकत्वं तिर्यक्त्वं च भवतीति ॥१७॥
मूलच्छेदमेवाह
तओ जिए सई होइ दुविहं दुग्गइं गओ।
दुल्लहा तस्स उम्मग्गा अद्धाए सुचिरादवि ॥१८॥ व्याख्या-ततो देवत्वमनुजत्वजयाज्जित एव 'सइ'त्ति सदा भवति द्विविधां नरकतिर्यग्पां दुर्गतिं गतः प्राप्तः । सदा जितत्वमेवाभिव्यञ्जयन्नाह-दुर्लभा तस्य हारितदेवत्वमनुजत्वस्य बालस्य 'उम्मग्ग'त्ति सूत्रत्वादुन्मज्या दुर्गतिनिर्गमनस्वरूपा कदा अद्धायां कालेऽर्थादागामिन्यां सुचिरादपि प्रभूतायामपि । इदं बाहुल्यादुक्तमन्यथा हि केचिदेकभवेनैव सिद्धयन्त्यपीति ॥१८॥
अथ पश्चानुपूर्व्या मूलहारिणः प्रागुपनयमुक्त्वा मूलप्रवेशोपनयमाह
१. छिद्यन्ते च भिद्यन्ते च शस्त्रैश्चाग्निना च दह्यन्ते ।
शीतोष्णैविलीयन्ते यन्त्रे पील्यन्ते नैरयिकाः ॥१॥ छेदनं भेदनं भारारोपणं दमनाङ्कनम् ।
शीतोष्णक्षुत्पिपासाः सहन्ते तिर्यञ्चो दुःखम् ॥२॥ २. महारम्भतया महापरिग्रहतया मांसाहारेण ।
पञ्चेन्द्रियवधेन जीवा नरकायु:कर्म बध्नन्ति ।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org