________________
सप्तममौरभ्रीयमध्ययनम्
अन्ये प्राहुरिदं त्रयो हि वणिजो द्रव्यार्जनायोद्यतास् , तत्रैको शुभकर्मणा व्यपगते मूलेऽगमत् प्रेष्यताम् । मूलेनापि सुरक्षितेन च परो भूयो धनान्यर्जयद् ;
भाग्यस्यातिशयात् प्रवृद्धकमलोऽन्योऽभूत् परं सौख्यभाक् ॥२५॥ इति व्यवहारोदाहरणम्, उपनयमाह-व्यवहारे व्यवहारविषया उपमा दृष्टान्त एषा पूर्वोक्ता । एवं वक्ष्यमाणन्यायेन धर्मे धर्मविषयामेनामेवोपमां विजानीतावबुध्यध्वमिति गाथाद्वयार्थः ॥१४-१५॥ कथमित्याह
माणुसत्तं भवे मूलं लाभो देवगई भवे । .
मूलच्छेएण जीवाणं नरग-तिरिक्खत्तणं धुवं ॥१६॥ व्याख्या-मानुषत्वं भवेत् स्यान्मूलं स्वर्गापवर्गात्मकं तदुत्तरोत्तरलाभहेतुत्वेन । तथा लाभ इव लाभो मनुजगत्यपेक्षया विषयसुखादिभिर्विशिष्टत्वाद् देवगतिर्भवेत् । एवं स्थिते किमित्याह-मूलच्छेदेन मनुष्यगतिहान्यात्मकेन जीवानां नारकत्वं तिर्यक्त्वं च दुर्गतिरूपं ध्रुवं निश्चितं भवेदिति शेषः । अत्र संसारित्रयसम्प्रदायः
"संसारिणस्त्रयः सत्त्वाः प्राप्ता मानुष्यकं भवम् । तत्रैको मध्यमारम्भपरिग्रहपरायणः ॥१॥ मार्दवादिगुणोपेतः कालं कृत्वाऽऽर्जवाशयः । कार्षापणसहस्त्राभं नृत्वमाप्नोति तत् पुनः ॥२॥ द्वैतीयीकः पुनः सम्यग्दर्शनज्ञानसुस्थितः । सरागसंयमेनाप देवत्वं लाभसन्निभम् ॥३॥ तृतीयः प्राप हिंसादिसावधाचारयुक् पुनः ।
तिर्यड्नरकभावं स च्छिन्नमूलवणिक् यथा" ॥४॥॥१६।। एतदेवाह
दुहओ गई बालस्स आवई वहमूलिया ।
देवत्तं माणुसत्तं च जं जिए लोलयासढे ॥१७॥ व्याख्या--द्विधा द्विप्रकारा गतिः सा च प्रक्रमान्नरकगतिस्तिर्यग्गतिश्च बालस्य रागाद्याकुलस्य स्यादिति गम्यम् । तत्र च गतस्य 'आवई'त्ति आपत् सा कीदृशी वधस्ताडनं मूलमादिर्यस्याः सा तथा । मूलग्रहणाच्छेद-भेदातिभारारोपणादिपरिग्रहः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org