________________
२६२
उत्तरज्झयणाणि-१ अशेषव्यसनत्यागी दक्षो मधुरवाक् शुचिः । व्यवसायादसौ तत्राभवद् विपुललाभवान् ॥११॥ द्वितीयस्तु तदा पुत्र इत्यन्तः पर्यभावयत् । प्रभूतमपि तातस्य तावत् सुकृतिनो धनम् ॥१२॥ अचिरात् परमायाति निष्ठां चेन्नाय॑ते नवम् । तन्मूलरक्षया लाभं भुञ्जानोऽहं लभे सुखम् ॥१३॥ चिन्तयित्वेति कुत्रापि पुरे गत्वा स्वमर्जयन् । भुञ्जानो लाभतो भोगान् यत्नान्मूलमरक्षयत् ॥१४॥ तार्तीयीकस्त्वथो दध्यौ यावन्नोऽस्ति धनं पितुः । धनदस्याप्यसम्भाव्यं तत् तावत् प्रायशो गृहे ॥१५॥ अहो ! वार्धक्ययोगेन पितुर्बुद्धिविपर्ययः । वयं बाल्येऽपि यत् तेन प्रेषिता विषयान्तरे ॥१६।। सत्यमुक्तं हि शास्त्रेषु प्रस्थास्नोर्यमवेश्मनि । वार्धक्ये हीयते सर्वं तृष्णका तरुणायते ॥१७॥ ममार्जितममी द्रव्यं मा भुञ्जतां तनूद्भवाः । इत्यस्मान् जनको गेहादपीष्टान् निरवासयत् ॥१८॥ यदा नरस्यातिक्रान्ताः पञ्चाशत् परिवत्सराः । रूपाज्ञौदार्य-ही-सत्त्व-प्रयत्ला यान्त्यलं तदा ॥१९॥ तत् किमर्थार्जनक्लेशैरिति ध्यात्वा क्वचित् पुरे । स्थित्वा द्रव्येण तेनायं विलासानभुञ्जद् भृशम् ॥२०॥ द्यूतेन वेश्यया मद्य-मांसाशन-विचेष्टितैः ।। तेन स्वल्पेन कालेन भुक्त्वा द्रव्यं समापितम् ॥२१॥ यथोक्तकाले ते सर्वे सम्प्राप्ताः पितुरन्तिके । तत्र यश्छिन्नमूलोऽभूत् स गृहे किङ्करीकृतः ॥२२॥ द्वितीयस्य पुनर्वस्तुनिक्षेपोत्क्षेपकारिणः । न दातव्यं न भोक्तव्यं स्वत इत्यधिकारिता ।।२३।। प्रथमस्याखिलं वेश्मस्वामित्वं जनको व्यधात् । तस्यैवाज्ञा व्यये भोगे दाने सद्भाग्यशालिनः ॥२४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org