________________
सप्तममौरभ्रीयमध्ययनम्
२६१ एगो मूलं पि हारित्ता आगओ तत्थ वाणिओ ।
ववहारे उवमा एसा एवं धम्मे वियाणह ॥१५॥ अनयोर्व्याख्या—'यथेति दृष्टान्तार्थे, चः समुच्चये' । त्रयो वणिजो मूलं नीवीं गृहीत्वा निर्गताः स्वस्थानात् प्रस्थिताः, स्थानान्तरं च प्राप्तास्तत्रैको वणिक्कलाकुशलोऽत्रैतेषु मध्ये लभते लाभं विशिष्टद्रव्योपचयलक्षणमेकस्तेष्वेवान्यो नातिनिपुणः स मूलेन मूलधनेन स्वगृहं प्राप्त इति । एको द्यूत-मद्यादिष्वत्यन्तमासक्तो मूलमप्यास्तां नवं हारयित्वाऽऽगतः स्वस्थानमिति । तत्र तेषु मध्ये वाणिजो वणिक् तथाहि
एकस्येभ्यस्य वणिजो युवानस्तनुजास्त्रयः ।। बुद्धि-पुण्य-प्रयत्नादि पिता तेषां परीक्षितुम् ॥१॥ अदाद् दशशतं कार्षापणानां स पृथक् पृथक् । तेन ते भणिताश्चैवं मूलमेतददायि वः ॥२॥ कालेनैतावतैतव्यं व्यवहृत्य सुतोत्तमाः ! । लज्जायै पैत्रिकश्रीणां भोगो युवतनूभुवाम् ॥३॥ इति श्रुत्वा त्रयोऽप्येते पैत्रिकादेशतत्पराः ।। प्रतस्थिरे पुरान्नीवीं तामादायार्जनोत्सुकाः ॥४॥ तत्रैकेन व्यचिन्त्येवं वयं तातस्य वल्लभाः । श्रीरपि प्रचुरा गेहे किन्तु सोऽस्मान् परीक्षते ।।५।। रत्नस्येव सुतस्यापि प्राक् परीक्षां विदुर्बुधाः । आदृत्य च ततो योग्याधिकारविनियोजनम् ।।६।। तस्मात् केनाप्युपायेनार्जित्वाऽऽशु प्रचुरं धनम् । मया तातः समावwः पुत्रकृत्यं ह्यदः परम् ॥७॥ चञ्चापुरुषतुल्यो हि पुरुषार्थमसाधयन् । पुरुषः स्यात् ततः काले पुरुषस्तं प्रसाधयन् ।।८।। "प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति ?" ॥९॥ इति निश्चित्य कुत्रापि सुधीर्महति पत्तने । गत्वा व्यवहरन् सम्यगनल्पानधिकव्ययः ॥१०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org