________________
२६०
उत्तरज्झयणाणि-१ दार्टान्तिकयोजनामाह
एवं माणुस्सगा कामा देवकामाण अंतिए ।
सहस्सगुणिया भुज्जो आउं कामा य दिव्विया ॥१२॥ व्याख्या-एवमिति काकिण्याम्रकतुल्या मानुष्यकाः कामा विषया देवकामानामन्तिके पार्वे किमित्येवमत आह-सहस्त्रगुणिताः सहस्रेस्ताडिता भूयो बहून् वारानायुर्जीवितं कामाश्चशब्दात् शब्दादयो दिव्यका देवसम्बन्धिनो मनुष्यायुःकामापेक्षयेति प्रक्रमः । इह च दिव्यकामानामतिभूयस्त्वेन कार्षापणसहस्रराज्यतुल्यता सूचितेति । आयुर्ग्रहणेन तत्रत्यप्रभावादीनामपि मनुष्यापेक्षया सहस्रगुणितत्वमवसेयम् ॥१२॥ मनुष्यकामानां काकिण्याम्रफलोपमानतां भावयति
अणेगवासानउया जा सा पन्नवओ ठिई।
जाणि जीयंति दुम्मेहा ऊणे वाससयाउए ॥१३॥ व्याख्या अनेकानि च तानि वर्षनयुतानि चानेकवर्षनयुतान्यर्थात् पल्योपमसागरोपमाणि 'प्राकृतत्वात् सकारस्य दीर्घः पुंस्त्वं च' । नयुतानयनोपायस्त्वयं चतुरशीतिवर्षलक्षाः पूर्वाङ्ग, तदेव पूर्वाङ्गेन गुणितं पूर्वं, पूर्वं च चतुरशीतलक्षगुणितं नयुताङ्गम्, तच्चापि चतुरशीतिलक्षाहतं नयुतमिति । कैवमुच्यते ? इति शिष्यं प्रत्याह-या सा भवतामस्माकं च प्रतीता, प्रज्ञा क्रियापूर्वकं प्रकृष्टं ज्ञानम् ।।
"तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः ।
तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुमिति ?" ॥१॥ ततः सा विद्यते यस्य स प्रज्ञावान् तस्य प्रज्ञावतो ज्ञानक्रियावत: स्थितिर्देवभवायूरूपा । तानि च कीदृशानीत्याह-यान्यनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयभूतानि जीयन्ते आर्षत्वात् हारयन्ते तद्धत्वनुष्ठानासेवनेन दुर्मेधसो दुधियो विषयैर्जिता जीवा इति । कदा ते तानि जीयन्ते इत्याह-ऊने वर्षशतायुषि । प्रभूते ह्यायुषि प्रमादेनैकदा हारितान्यपि पुनरर्जयेरन् । अस्मिस्तु संक्षिप्तायुष्येकदा हारितानि हारितान्येव । श्रीवीरतीर्थे प्रायो न्यूनवर्षशतायुषामेवोत्पत्तेः । को भावो द्रमकराजसदृशा दुर्मेधसो दुधियः काकिण्याम्रफलोपमाल्पतरमनुष्यायुःकामार्थे कार्षापणसहस्रराज्यतुल्यान् प्रभूतदेवायु:कामान् हारयन्तीति ॥१३॥ व्यवहारोपमामाह
जहा य तिन्नि वणिया मूलं घेत्तूण निग्गया । एगोत्थ लहए लाभं एगो मूलेण आगओ ॥१४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org