________________
२५९
सप्तममौरभ्रीयमध्ययनम्
सच्छायं फलितं चूतममात्यो वीक्ष्य भूधवम् । प्राहापथ्यतरोरस्मादपसृत्योपविश्यते ॥६॥ सम्भाव्यते यतोऽनर्थः कश्चिन्नियतमात्मनः । छायाऽप्यस्य परीहार्या धीमता दीर्घदर्शिना ॥७॥ नृपोऽप्याह दृढीभूतं मनो मे नैव रज्यते । योगिनः स्त्रीष्विवानेषु स्वं सात्म्यमनुपश्यतः ||८|| इत्युक्त्वा वार्यमाणोऽपि मन्त्रिणा तत्तरोरधः । उपविश्याम्रसौन्दर्यमपश्यन्नयनोत्सवम् ॥९॥ राजन् ! नापथ्यवाञ्छाऽपि विधेयेत्यनुशास्य तम् । मन्त्री तृषातुरे राज्ञि जलार्थमगमद् वने ॥१०॥ अथ वायुवशात् पेतुः फलानि नृपतेः पुरः । अशक्नुवंस्तु स्वं रोद्धं तान्यादत्त स्वपाणिना ॥११॥ स्पृष्ट्वा दृष्ट्वा तथाऽऽघ्राय स्मरन्नपि हितं वचः । यमभूतग्रस्त इव नाचिन्तयदिदं हृदि ॥१२॥ क्षणसौख्यकरास्वादादाम्राहारात् सदा सुखम् । आसमुद्रान्तभूराज्यं दुष्प्रापं हारयिष्यते ।।१३।। ततो गृद्धिगृहीतात्मा किञ्चिदास्वाद्य तत्फलम् । तद्रसं चालयन् वक्त्रे चिरमस्थान्महीपतिः ॥१४॥ अथागच्छन्तमीक्षित्वाऽमात्यमस्मिन्नपश्यति । आम्रास्वादं क्षमः कर्तुं तत् कुर्वेऽस्मिन्ननागते ।।१५।। द्रुतं द्रुतमिति ध्यात्वाऽभक्षयत् तत्फलानि सः । दधावे सचिवो यावत् पूत्कुर्वन् वारयन् नृपम् ॥१६॥ अपथ्योत्थमहादोषात् तावदत्यज्यतासुभिः । सचिवस्तु पुरं गत्वा राज्यचिन्तामवर्तयत् ॥१७॥ एवं यत् तत्त्वतो दुःखं स्वल्पकं मानुषं सुखम् ।
बालिशास्तत्कृते चित्रं हारयन्ति परं सुखम् ॥१८॥ इत्याम्रकथा ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org