SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २५८ उत्तरज्झयणाणि-१ एतान् नकुलके क्षिप्त्वाऽचलत् सार्थेन केनचित् । काकिनीभिर्विभिद्यैकं रूपकं बुभुजे पथि ॥२॥ दिने दिने भुञ्जतोऽस्यावशिष्टैकाऽस्ति काकिनी । तां च व्यस्मारयत् क्वापि गच्छन् पथ्यस्मरच्च ताम् ।।३।। दध्यौ गृहमदूरस्थं सार्थेन किमयो मम ? | भेत्तव्यो रूपको मा भूदेकाहव्ययहेतवे ॥४॥ किमर्थं मुच्यते व्यर्थमात्मीयैकाऽपि काकिनी । इति ध्यात्वा नकुलकं क्वचित् स्थाने जुगोप सः ॥५॥ स्वयं पराङ्मुखो मुष्टिं बद्ध्वाऽधावत तत्कृते । न प्रापत् काकिनी तत्र हृतां केनापि गच्छता ॥६॥ दृष्टो नकुलकस्तत्र क्षिप्यमाणश्च केनचित् । अग्राहि चोभयभ्रष्टस्तमप्राप्याभवत् स तु ॥७॥ गृहं गतः शुशोचैवं मानुष्यसुखलम्पटः । पापानि तत्कृते कुर्वन् हारयेद् दिव्यसम्पदः ।।८।। इति काकिनीकथा ॥ तथा अपथ्यमहितमाम्रकमाम्रफलं भुक्त्वा राजा राज्यं तुरेवार्थे हारयेदेवात्राम्रदृष्टान्तस्तथाहि नृपस्य कस्याप्यत्याम्राशनादासीद् विशूचिका । महारसादिकष्टेनाचिकित्सन् भिषजश्च तम् ॥१॥ अभाणि च नृपो वैद्यैस्त्वं खादिष्यसि तानि चेत् । दृढरोगभरोऽसाध्यस्तदा नूनं मरिष्यसि ॥२॥ तदभ्युपेत्य भूपालोऽप्याम्रप्रियतयाऽऽत्मनः । धीमानाम्रवनं सर्वं स्वेदेशादुदखानयत् ॥३॥ अन्यदाऽश्वारूढमन्त्रियुगारूह्य हयं नृपः । गन्तुं प्रववृते यावत् तावद् वेगेन वायुवत् ॥४॥ धावमानौ महाटव्यामायातां तौ हयौ क्षणात् । स्वयं श्रमेण स्थितयोस्तयोरुत्तेरतुश्च तौ ॥५॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy