________________
सप्तममौरभ्रीयमध्ययनम्
"अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
आये दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम्" ॥१॥
हित्वा त्यक्त्वा द्यूताद्यसद्व्ययेन बहु प्रभूतं सञ्चित्योपार्ण्य रजोऽष्टधा कर्म । ततः कर्मगुरुः कर्मभारितो जन्तुः प्राणी प्रत्युत्पन्नं वर्त्तमानं तत्र परायणस्तन्निष्ठः प्रत्युत्पन्नप
रायणः । यथाऽऽह
" एतावानेव लोकोऽयं यावानिन्द्रियगोचरः ।
भद्रे ! वृकपदं पश्य यद्वदन्ति बहुश्रुताः " ॥१॥
I
इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इत्यर्थः । 'अए व्व'त्ति अज इव प्रस्तावादुरभ्र इव । ‘आगयाएस’त्ति आर्षत्वादागते आदेशे प्राघुणके मरणान्ते शोचते । को भाव यथाऽऽदेशे आगते उरभ्रः शोचते तथाऽयमपि धिग् मां विषयव्यामोहोपार्जितगुरुकर्माणं हा ? क्वेदानीं मया गन्तव्यमित्यादिप्रलापात् स खिद्यते इति गाथाद्वयार्थः ॥८-९॥ परलोकापायमाह—
तओ आउपरिक्खीणे चुता देहा विहिंसगा ।
आसुरीयं दिसं बाला गच्छंति अवसा तमं ॥१०॥
व्याख्या—ततः शोचनानन्तरमायुषि तद्भवसम्बन्धिनि परिक्षीणे क्षयं प्राप्ते च्युता भ्रष्टा देहाद् विहिंसकाः प्राणिघातकाः । असुराणां रौद्रकर्मकारिणामियमासुरीया तां दिशं भावदिशं नरकगतिमित्यर्थः । बाला अज्ञा गच्छन्ति अवशाः कर्मपरवशाः । तमोयुक्तत्वात् तमोऽर्थादधोगतिम् । उक्तं हि—
“निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्ता । नरया अनंतवेयणा अणिट्ठसद्दाइवसया य" ॥१॥ काकिण्याम्रदृष्टान्तमाह—
जहा कागिणीए हेडं सहस्सं हारए नरो ।
अपत्थं अंबगं भुच्चा राया रज्जं तु हारए ॥११॥
व्याख्या—यथा काकिण्या रूपकाशीतितमभागलक्षणाया हेतोर्निमित्तं सहस्त्रं
दशशतात्मकं कार्षापणानामिति गम्यं हारयेन्नरोऽत्र दृष्टान्तः
ग्राम्यप्रायेण केनापि वाणिज्यादि प्रकुर्वता । सहस्रमर्जितं कार्षापणानां विषयान्तरे ॥ १ ॥
२५७
१. नित्यान्धकारतमसो व्यपगतग्रहचन्द्रसूरनक्षत्राः । नरका अनन्तवेदना अनिष्टशब्दादिवशगाश्च ॥ १ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org