SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ सप्तममौरभ्रीयमध्ययनम् "अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम्" ॥१॥ हित्वा त्यक्त्वा द्यूताद्यसद्व्ययेन बहु प्रभूतं सञ्चित्योपार्ण्य रजोऽष्टधा कर्म । ततः कर्मगुरुः कर्मभारितो जन्तुः प्राणी प्रत्युत्पन्नं वर्त्तमानं तत्र परायणस्तन्निष्ठः प्रत्युत्पन्नप रायणः । यथाऽऽह " एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद्वदन्ति बहुश्रुताः " ॥१॥ I इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इत्यर्थः । 'अए व्व'त्ति अज इव प्रस्तावादुरभ्र इव । ‘आगयाएस’त्ति आर्षत्वादागते आदेशे प्राघुणके मरणान्ते शोचते । को भाव यथाऽऽदेशे आगते उरभ्रः शोचते तथाऽयमपि धिग् मां विषयव्यामोहोपार्जितगुरुकर्माणं हा ? क्वेदानीं मया गन्तव्यमित्यादिप्रलापात् स खिद्यते इति गाथाद्वयार्थः ॥८-९॥ परलोकापायमाह— तओ आउपरिक्खीणे चुता देहा विहिंसगा । आसुरीयं दिसं बाला गच्छंति अवसा तमं ॥१०॥ व्याख्या—ततः शोचनानन्तरमायुषि तद्भवसम्बन्धिनि परिक्षीणे क्षयं प्राप्ते च्युता भ्रष्टा देहाद् विहिंसकाः प्राणिघातकाः । असुराणां रौद्रकर्मकारिणामियमासुरीया तां दिशं भावदिशं नरकगतिमित्यर्थः । बाला अज्ञा गच्छन्ति अवशाः कर्मपरवशाः । तमोयुक्तत्वात् तमोऽर्थादधोगतिम् । उक्तं हि— “निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्ता । नरया अनंतवेयणा अणिट्ठसद्दाइवसया य" ॥१॥ काकिण्याम्रदृष्टान्तमाह— जहा कागिणीए हेडं सहस्सं हारए नरो । अपत्थं अंबगं भुच्चा राया रज्जं तु हारए ॥११॥ व्याख्या—यथा काकिण्या रूपकाशीतितमभागलक्षणाया हेतोर्निमित्तं सहस्त्रं दशशतात्मकं कार्षापणानामिति गम्यं हारयेन्नरोऽत्र दृष्टान्तः ग्राम्यप्रायेण केनापि वाणिज्यादि प्रकुर्वता । सहस्रमर्जितं कार्षापणानां विषयान्तरे ॥ १ ॥ २५७ १. नित्यान्धकारतमसो व्यपगतग्रहचन्द्रसूरनक्षत्राः । नरका अनन्तवेदना अनिष्टशब्दादिवशगाश्च ॥ १ ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy