SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २५६ उत्तरज्झयणाणि-१ उक्तमेवार्थं प्रपञ्चयति हिंसे बाले मुसावाई अद्धाणंमि विलोवए । अन्नदत्तहरे तेणे माई कंनुहरे सढे ॥५॥ व्याख्या-हिंस्रः प्राणिव्यपरोपणशीलः । बालो मृषावादी अध्वनि मार्गे विलोपकः पथि जनानां मोषकः । अन्यैरदत्तं हरतीत्यन्यादत्तहरो ग्रन्थिच्छेदादिना सर्वापहारकः । स्तेनः क्षात्रखननादिना चौर्यकृत् । मायी परवञ्चकः । कंनुहरः कस्यार्थं नु वितर्के हरिष्यामीत्यध्यवसायी । शठो वक्राशयः ॥५॥ तथा इत्थीविसयगिद्धे य महारंभपरिग्गहे । भुंजमाणे सुरं मंसं परिवूढे परन्दमे ॥६॥ व्याख्या-स्त्रीविषयगृद्धः स्त्रीषु विषयेषु च गृद्धोऽभिकाङ्क्षावान् । महानारम्भो हिंसाकृव्यापारः परिग्रहो धान्यादिसञ्चयो यस्य स तथा भुञ्जानः सुरां मांसं परिवृढः पुष्टत्वेन तत्तत्क्रियासमर्थोऽत एव परन्दमोऽन्येषां दमयिता ॥६॥ किञ्च अयकक्करभोई य तुंडिले चियसोणिए । आउए नरए कंखे जहाएसं व एलए ॥७॥ व्याख्या-अजस्य छागस्य कर्करमतिपक्वं मासं यच्चनकवद् भक्ष्यमाणं कर्करायते तद्भोजी । तुण्डिलो बृहत्कुक्षिः । चितमुपचितं शोणितं यस्य स तथा शेषधातूपलक्षणमिदम् । आयुर्जीवितं नरके काङ्क्षति कं क इव ? इत्याह-यथादेशमिवैडकः ॥७॥ अथैहिकापायमाह आसणं सयणं जाणं वित्तं कामे अ भुंजिया । दुस्साहडं धणं हिच्चा बहुं संचिणिया रयं ॥८॥ तओ कम्मगुरू जंत पच्चप्पन्नपरायणे । अए व्व आगयाएसे मरणंतंमि सोयई ॥९॥ अनयोर्व्याख्या—आसनं शयनं यानं वित्तं कामान् शब्दादींश्च भुक्त्वोपभुज्य दुःखेन संहियते मील्यते स्म दुःसंहृतं धनं यतः Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy