________________
२५५
सप्तममौरभ्रीयमध्ययनम् स पुनः किमित्याह
जाव न एइ आएसे ताव जीवइ से दुही ।
अह पत्तंमि आएसे सीसं छेत्तूण भुज्जई ॥३॥ व्याख्या-यावन्नेति नायात्यादेशस्तावज्जीवति प्राणान् धारयति स उरभ्रो दुःखी वध्यमानमण्डनमिवास्यौदनदानाद्यपि तत्त्वतो दुःखमेवेति । अथानन्तरं प्राप्ते आगतके आदेशे शिरश्छित्वा भुज्यते तेन स्वामिना सादेशेनेति शेषः । उरभ्रकथाशेषः कथ्यते
प्राप्ते प्राघूर्णके मेषं वध्यमानं स वत्सकः । विलोक्य जातभी स्तन्यं नापिबद् वेपथु दधन् ॥१३॥ मात्राऽभाणि कुतो वत्स? भयभीत इवेक्ष्यसे ? । न मां पिबसि यत् पुत्रप्रेम्णा प्रस्नुवतीमपि ॥१४॥ वत्सः सगद्गदं प्रोचे स्तन्ये मेऽम्ब ? रुचिः कुतः ? । अद्य प्राघूर्णकाः केचिदाययुः स्वामिवल्लभाः ॥१५॥ उरभ्रको वराकोऽसौ विलोलनयनो रसन् । विनिर्गतललज्जिह्वो मार्यतेऽशरणस्ततः ॥१६॥ तदर्शनभयेनाम्ब ! दुग्धेच्छा मे कुतो भवेत् ? । गौरप्याह शिरोमध्यं लिहन्ती जिह्वया मुहुः ॥१७॥ तदैवोक्तं मया वत्स ? चिह्नमेतद् यदातुरम् । विपाकोऽयं तदेतस्य प्राप्तोऽद्य तव पश्यतः ॥१८॥ पिब स्तन्यं भज स्वास्थ्यं मांसादिसरसाशिनः ।
एवमेव भविष्यन्ति भूयो मरणपीडिताः ॥१९॥ इति उरभ्रदृष्टान्तः ॥३॥ दालन्तिकमाह
जहा से खलु उरब्भे आएसाए समीहिए ।
एवं बाले अहम्मिट्टे ईहई नरयाउयं ॥४॥ व्याख्या-यथा येन प्रकारेण स उरभ्रः खलु निश्चये 'आएसाए'त्ति आदेशाय प्राघुणकार्थं समीहितः कल्पितः सन् यथायमस्मै भविष्यतीत्यादेशं परिकाङ्क्षतीत्यनुवर्तते एवमेव बालोऽज्ञोऽधर्मिष्ठ ईहते वाञ्छति तदनुकूलाचारतया नरकायुरिति ॥४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org