SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २५४ उत्तरज्झयणाणि-१ स्नेहतो गोपितं मात्रा दोग्ध्रा तदनुकम्पया । स्तने मुक्तमपि क्षीरं तन्मात्सर्येण नापिबत् ॥३॥ लिहन्ती जिह्वया प्रेम्णा पश्यन्ती तं प्रसूरवक् । दूमितो वत्स ! केनासि न किं पिबसि मे पयः ? ॥४॥ सोऽवदत् पश्यसि न किं मेषोऽयं गृहमानुषैः ? । अहम्पूर्विकयाऽभीष्टैरशनैः परिपोष्यते ॥५॥ स्नाप्यते भूष्यते पुत्राविशिष्टः परिपाल्यते । तिर्यङपि तथाऽस्त्येष भोगभागी मनुष्यवत् ॥६॥ अहं तु मन्दभाग्योऽस्मि कुण्डोध्न्यां त्वयि मातरि । न तृणान्यपि शुष्कानि पर्याप्तानि लभेय यत् ॥७॥ तालुके च तृषा ग्रीष्मे शुष्यत्यपि न कोऽपि माम् । पाययत्यम्बु तन्मातर्दुग्धेनालमनादरे ॥८॥ गौरवक् पुत्र ! मा कुप्यश्चिह्नान्येतान्युरभ्रकः । असाध्यरोगिणो धत्ते तद् यथोक्तमिदं श्रुतम् ॥९॥ "आउरचिंधाई एयाइं जाई चरइ नंदिओ। सुक्कत्तिणेहिं जीवेहिं एयं दीहाओ लक्खणम्" ॥१॥ मुमूर्षुरातुरो यद् यदीप्सेत् किल हिताहितम् । तत् तत् प्रदीयते तस्मै कृपया तस्य बन्धुभिः ॥११॥ प्राघूर्णके समायाते मेषोऽयं मारयिष्यते । वत्सेक्षिताऽसि त्वमपि तदानीं मा वृथा रुषः ॥१२॥ ॥१॥ ततः स कीदृक् किं करोतीत्याह तओ से पुढे परिव्बूढे जायमेए महोदरे । पीणिए विउले देहे आएसं परिकंखए ॥२॥ व्याख्या-तत ओदनादिदानात् स उरभ्रः पुष्टः समांसलः परिवृढः समर्थः । जातमेदा उपचितचतुर्थधातुरत एव महोदरः प्रीणितस्तर्पितो यथाऽर्हाहारादिहेतुभिर्विपुले देहे सत्यादेशं प्राघुणकं परिकाङ्क्षतीच्छति ॥२॥ १. आतुरचिह्नान्येतानि यानि चरति नन्दिकः । शुष्कतृणैर्जीवैरेतद् दीर्घायुषो लक्षणम् ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy