SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सप्तममौरभ्रीयमध्ययनम् साम्प्रतमौरभ्रीयमारभ्यते-इह पूर्वाध्ययने निर्ग्रन्थत्वमुक्तं तच्च रसगृद्धित्यागादेव स्यात् स च विपक्षेऽपायदर्शनात् तच्च दृष्टान्तैरेव स्फुटिं भवतीति रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमध्ययनमारभ्यते । अत्र चोरभ्रादिदृष्टान्तान् पञ्चाह नियुक्तिकृत् "उरब्भे कागिणी अंबए य ववहारे सायरे चेव । पंचेए दिटुंता ओरब्भीयंमि अज्झयणे" ॥१॥ तत्रोरभ्रदृष्टान्तसूचिकामाद्यां गाथामाह सूत्रकारः जहादेसं समुद्दिस्स कोइ पोसिज्ज एलयं । ओअणं जवसं देज्जा पोसेज्जा वि सयंगणे ॥१॥ व्याख्या-यथेत्युदाहरणोपन्यासे आदिश्यते विविधव्यापारेषु परिजनोऽस्मिन्नायाते इत्यादेशः प्राघुणकस्तं समुद्दिश्याश्रित्य यथाऽसौ समागतश्चैनं भोक्ष्यत इति कश्चित् परलोकापायनिरपेक्ष: पोषयेत् पुष्टं कुर्यादेलकमूरणकमोदनं कूरं तद्योग्यशेषान्नोपलक्षणम् । यवसं मुद्गादि दद्यादग्रतो ढौकयेत् तत एव च पौषयेदिति । पुनर्वचनादरख्यापनार्थम् । अपिशब्दात् सम्भाव्यते एवंविधः कोऽपि गुरुकर्मा स्वकाङ्गणे एवान्यत्र नियुक्तनराः कदाचिदोदनादि न दास्यन्तीति स्वाङ्गणे इत्युक्तम् । उरभ्रदृष्टान्तो यथा क्वचित् प्राघूर्णकस्यार्थे उरभ्रः कोऽप्यपोष्यत । सोऽत्यन्तपुष्टसर्वाङ्गः स्नापितश्चाप्यलङ्कृतः ॥१॥ सम्भूतैः शिशुभिः क्रीडाः कार्यमाणः क्रमादभूत् । दर्शनीयोऽन्यदा दृष्ट्वा वत्सकस्तं तथाविधम् ॥२॥ ★ उरभ्रः काकिनी आम्रकश्च व्यवहारः सागरश्चैव ।। पञ्चैते दृष्टान्ता औरभ्रीयेऽध्ययने ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy