________________
२५२
उत्तरज्झयणाणि-१ मुनिः । पात्राद्युपकृतिसन्निधेः को विधिः ? इत्याह-इव शब्दस्य लोपात् पक्षीव पक्षी यथा पक्षी पत्रं पक्षसञ्चयं समादाय गृहीत्वा व्रजत्येवं भिक्षुरपि पात्रमुपलक्षणाच्छेषोपकरणं चादाय निरपेक्षस्तद्विनाशादौ शोकाभावान्निरभिष्वङ्गः परिव्रजेदिति । तथा च प्रत्यहमसंयमपलिमन्थभीरुतया पात्रादिसन्निधौ न दोष इति भावः ॥१६॥ पूर्वोक्तमेव व्यक्तुमाह
एसणासमिओ लज्जू गामे अनियओ चरे ।
अप्पमत्तो पमत्तेहिं पिंडपायं गवेसए ॥१७॥ व्याख्या-एषणायामुत्पादनादिविषयायां सम्यगितः स्थित एषणासमित इहैषणाग्रहणप्राधान्यात् प्रायस्तद्भावे ईर्याभाषासमितिसम्भवाद् वेति । अनेन निरपेक्षत्वमुक्तम् । लज्जा संयमस्तद्वान् ग्रामे उपलक्षणान्नगरादावनियतोऽनिश्चितवृत्तिश्चरेद् विहरेदनेनापि निरपेक्षतैवेति । चरंश्च किं कुर्यादित्याह-अप्रमत्तः सन् प्रमत्तेभ्यो गृहस्थेभ्यः पिण्डपातं भिक्षां गवेषयेदिति ॥१७॥ प्रागुक्तयोः संयमनिर्ग्रन्थस्वरूपयोरादरोत्पादनार्थमाह
एवं से उदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदंसणधरे ।
अरहा नायपुत्ते भयवं वेसालिए वियाहिए ॥१८॥ त्ति बेमि ॥ व्याख्या-एवममुना प्रकारेण स इति भगवान् ‘उदाहु'त्ति उदाहृतवाननुत्तरज्ञानी सर्वोत्कृष्टज्ञानवाननुत्तरमुत्कृष्टं पश्यतीत्यनुत्तरदर्शी सामान्यविशेषग्राहितया दर्शनज्ञानयोर्भेदो यत उक्तम्-"जं सामण्णग्गहणं दसणमेयं विसेसियं नाणं"ति अनुत्तरे ज्ञानदर्शने युगपदुपयोगाभावेऽपि लब्धिरूपतया युगपद् धारयतीत्यनुत्तरज्ञानदर्शनधरः पूर्वविशेषणाभ्यामुपयोगस्य ज्ञानदर्शनयोभिन्नकालतोक्ता । ततश्च मा भूदुपयोगवल्लब्धिद्वयमपि भिन्नकालभावीति व्यामोहोऽतोऽनुत्तरज्ञानदर्शनधर इति न पौनरुक्त्यम् । अर्हस्तीर्थकृत् ज्ञातः क्षत्रियः स चार्थात् सिद्धार्थस्तस्य पुत्रः श्रीवीर इत्यर्थः । भगवान् समग्रैश्वर्यादिमान् विशाला: शिष्या यश:प्रभृतयो वा गुणा विद्यन्ते यस्य स वैशालिकः “वियाहिय'त्ति व्याख्याता सदेवमनुजायां पर्षदि कथयिता । इति ब्रवीमीति प्राग्वत् ।। ग्रंथाग्रम्-१७९ अ-१६॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
षष्ठं क्षुल्लकनिर्ग्रन्थीयमध्ययनं समाप्तम् ॥६॥
१. यत् सामान्यग्रहणं दर्शनमेतद् विशेषितं ज्ञानमिति ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org