________________
षष्ठं क्षुल्लकनिर्ग्रन्थीयमध्ययनम्
२५१ पश्यन्नप्रमत्तो यथैकेन्द्रियादीनां विराधना न स्यात् तथा परिव्रजे: संयमाध्वनि याया भोः शिष्य ! इति ॥१३॥ यथाऽप्रमत्तः प्रव्रजेत् तथाऽऽह
बहिया उड्डमादाय नावकंखे कयाइ वि ।
पुव्वकम्मक्खयट्ठाए इमं देहं समुद्धरे ॥१४॥ व्याख्या-बहिर्भूतं भवादिति गम्यम् । ऊर्ध्वं सर्वोपरि स्थितमर्थान्मोक्षमादाय गृहीत्वा मयैतदर्थं यतितव्यमिति निश्चित्य नावकाङ्क्षन्नाभिलषेद् विषयादिकं कदाचिदप्युपसर्गादिव्याकुलत्वेऽप्यास्तामन्यदा । एवं देहधारणमप्ययुक्तमाकाङ्क्षाऽसम्भवादत आहपूर्वकर्मक्षयार्थं [इदं] देहं समुद्धरेदुचिताहारादिभिः पालयेत् तद्धारणस्य शुद्धिहेतुत्वादुक्तं च
"सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा ।
मुच्चइ अइवायाओ पुणो विसोही न याविरई' ॥१॥ ततो देहधारणमपि निरभिष्वङ्गतया विधेयमेवेति भावः ॥१४॥ यथा देहपालनेऽप्यभिष्वङ्गाभावस्तथाऽऽह
विविच्च कम्मुणो हेडं कालकंखी परिव्वए ।
मायं पिंडस्स पाणस्स कडं लभ्रूण भक्खए ॥१५॥ व्याख्या—विविच्य पृथक्कृत्य कर्मणो ज्ञानावरणादेर्हेतुमुपादानरूपं मिथ्यात्वादि कालं क्रियाप्रस्तावं काङ्क्षति इत्येवंशीलः कालकाङ्क्षी परिव्रजेरिति प्राग्वत् । 'विगिचि'त्ति पाठे वेवेग्धि पृथक् कुरु शेषं तथैव । मात्रां यावत्या संयमनिर्वाहस्तावती ज्ञात्वेति गम्यम् । पिण्डस्य भक्तस्य पानस्य च खाद्यस्वाद्ययोः प्रायो यतेरसम्भवादिहानुपादानं कृतं गृहिभिः स्वार्थमेव लब्ध्वा प्रक्रमात् पिण्डादि भक्षयेदिति ॥१५॥ किञ्च
सन्निहिं च न कुव्विज्जा लेवमायाए संजए ।
पक्खी पत्तं समादाय निरविक्खो परिव्वए ॥१६॥ व्याख्या-सन्निधिमन्यदिनभोजनार्थं भुक्तशेषस्याऽन्नादे रात्रौ स्थापनं न कुर्वीत । लेपमात्रया यावता पात्रमुपलिप्तं स्यात् तावन्मानमपि सन्निधिं न कुर्वीतास्तां बहु संयतो
१. सर्वत्र संयमं संयमादात्मानमेव रक्षेत् ।
मुच्यतेऽतिपातात् पुनविशुद्धिर्न चाविरतिः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org