________________
२५०
उत्तरज्झयणाणि-१ विषण्णा विविधं मग्नाः पापकर्मसु हिंसादिक्रियासु यतस्ते बाला रागाद्याकुला: पण्डितमानिन आत्मानं पण्डितम्मन्या इति ॥११|| साम्प्रतं मुक्तिपथपरिपन्थिनां सामान्येन दोषमाह
जे केइ सरीरे सत्ता वण्णे रूवे य सव्वसो ।
मणसा कायवक्केणं सव्वे ते दुक्खसंभवा ॥१२॥ व्याख्या-ये केचिच्छरीरे सक्ता लालनाभ्यङ्गस्नानादिषु बद्धाग्रहाः न चैवं ते भावयन्ति
"तह तह लालिओ निच्चकालुजोडिओ रुच्चंतड़ खलु जिम थक्कई वलि विवंठ जीवि चलंतइ । दड्डसरीरह तासु रे सिजण पाउ म किज्जओ
थरहर जीविउ जाइ चित्त परलोयह दिज्जओ" ॥१॥ तथा वर्णे गौरत्वादिके रूपे सौन्दर्ये चशब्दात् स्पर्शादिषु वस्त्राद्यभिष्वङ्गेषु वाऽऽसक्ताः । 'सव्वसो' ति सूत्रत्वात् सर्वथा सर्वैः स्वयं करणादिप्रकारैर्मनसा कथं वर्णादिमन्तो वयं भाविनः कायेन रसाङ्गाद्यासेवनेन वाक्येन वचसा रसायनादिप्रश्नरूपेण सर्वे ते ज्ञानादेव मुक्तिरिति वादिनो दुःखसम्भवा इहामुत्र च दुःखभाज इति ।।१२।। उपदेशसर्वस्वमाह
आवन्ना दीहमद्धाणं संसारंमि अणंतए ।
तम्हा सव्वदिसं पस्स अप्पमत्तो परिव्वए ॥१३॥ व्याख्या-आपन्नाः प्राप्ता दीर्घमनाद्यनन्तमध्वानमिवाध्वानमन्यान्यभवभ्रमणेनैकत्रावस्थितेरभावात् । क्व संसारे चातुर्गतिकेऽनन्तकेऽपर्यन्ते 'तम्ह'त्ति यस्मादेते दुःखसम्भवास्तस्मात् सर्वदिशः प्रस्तावात् पृथिव्याधष्टादशभेदाः । उक्तञ्च
"पुढवि जलजलणवाया मूला खंधग्गपोरबीया य । बितिचउपणिदितिरिया य नारया देवसंघाया ॥१॥ सम्मुच्छिमकम्माकम्मभूमिगनरा तहंतरद्दीवा ।
भावदिसा दिस्सइ जं संसारी निययमेयाहिं" ॥२॥ १. पृथ्वी जल-ज्वलन-वाता मूलानि स्कन्धान-पर्व-बीजानि च ।
द्वि-त्रि-चतुः-पञ्चेन्द्रियतिर्यञ्चश्च नारका देवसङ्घाताः ॥१॥ २. सम्मूर्छिमकर्माकर्मभूमिगनरास्तथाऽऽन्तरद्वीपाः ।
भावदिशा दृश्यते यत् संसारी नियतमेताभिः ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org