SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ षष्ठं क्षुल्लक निर्ग्रन्थीयमध्ययनम् अत्रार्थे परेषां विप्रतिपत्तिं दर्शयति इहमेगे उ मन्नंति अप्पच्चक्खाय पावगं । आयरियं विदित्ता णं सव्वदुक्खा विमुच्चई ॥९॥ व्याख्या - इह मुक्तिमार्गविचारे एके कापिलादिकुतीर्थ्यास्तु पुनर्मन्यन्तेऽङ्गीकुर्वते यथा अप्रत्याख्यायानिराकृत्य पापकं हिंसादिविरतिमकृत्वा 'आयरियं 'ति आराज्जातं सर्वज्ञयुक्तिभ्य इत्यार्यं तत्त्वं तद् विदित्वा ज्ञात्वा सर्वदुःखाच्छारीरमानसाद् विमुच्यते । तथाऽ ISSहुस्ते— "पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जी मुण्डी शिखी वापि मुच्यते नात्र संशयः " ॥१॥ एवं सर्वत्र ज्ञानमेव मुक्त्यङ्गं न चैतद् युक्तम् । न ह्यौषधादिपरिज्ञानमात्रतो बाह्यरोगेभ्य इव भावरोगेभ्यः कर्मभ्यो महाव्रतरूपक्रियामकृत्वा ज्ञानमात्रादेव मुक्तिस्ते चैवमनालोचयन्तो वाचालतयैवात्मानं स्वस्थयन्ति ||९|| तथाहि— भणंता अकरेंता य बंधमोक्खपइन्निणो । वायाविरियमेत्तेणं समासासेंति अप्पयं ॥१०॥ व्याख्या—भणन्त उपदिशन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति । अकुर्वन्तश्च मुक्युपायमनुष्ठानं, बन्धमोक्षयोः प्रतिज्ञाऽङ्गीकारस्तद्वन्तोऽस्ति बन्धोऽस्ति मोक्ष इति वादिन एव केवलं, न तु तथाऽनुष्ठायिनः । वाग्वीर्यं वचनशक्तिर्वाचालता तदेव क्रियाशून्यं वाग्वीर्यमात्रं तेन समाश्वासयन्ति ज्ञानादेव वयं मुक्तियायिन इति स्वस्थयन्त्यात्मानमिति ॥१०॥ तेषामयुक्तत्वं स्वत आह— २४९ न चित्ता तायए भासा कओ विज्जाणुसासणं । विसन्ना पावकम्मेसु बाला पंडियमाणिणो ॥ ११॥ व्याख्या - न चैव चित्रा प्राकृतसंस्कृतादिरूपाऽऽर्यविषयं ज्ञानमेव मुक्त्यङ्गमित्यादिका वा त्रायते रक्षति पापेभ्य इति गम्यम् । भाषा वागात्मिका नन्वचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इत्यघोरादिमन्त्रात्मिका वाक् त्राणाय भविष्यतीत्याह - कुतो विद्या विचित्रा मन्त्ररूपा तस्या अनुशासनं शिक्षणं त्रायते पापान्न कुतोऽपि तन्मात्रादेव मुक्तौ शेषक्रियावैयर्थ्यप्रसङ्गादिति भावोऽत एव ये तदपि त्राणायेति वदन्ति ते यादृशास्तदाह Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy