SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २४८ उत्तरज्झयणाणि-१ श्रेणिकः कौतुकाकृष्टः पृष्टवानभयं सुतम् । इयद्दध्नव्रातः पौरेभ्यश्च यशोऽभितः ॥२०॥ एतद्द्वयं कथं प्राप्तं भवता पञ्चभिर्दिनैः । विरुद्धद्वययोगो हि दुर्घट: किल गीयते ॥२१॥ युग्मम् अभयः प्राख्यदप्राक्षी: प्राक् प्रभो ! यत् सभासदः । पण्येषु बहुमूल्यं किं मांसमूचे मया तदा ॥२२।। तच्चाश्रद्दधतां सत्य: प्रत्ययो दर्शितो यतः । बह्वपि स्वं ददुर्लोका न चाल्पमपि कालिजम् ॥२३।। प्रेयांसो बहुमूल्याश्च प्राणा एव हि मेनिरे । सर्वैरपि नृपामात्यैस्ताहक्प्रत्ययदर्शनात् ॥२४॥ अथ मन्त्रीन्दुबुद्ध्याऽतिहष्टः स्पष्टनयो नृपः । पौरान् सत्कृत्य यद् यस्य तत् तस्मै ददिवान् धनम् ।।२५।। एवं सर्वजन्तूनां प्रियात्मत्वमिति ॥७॥ किञ्च आयाणं नरयं दिस्स नायइज्ज तणामवि । दोगुच्छी अप्पणो पाए दिन्नं भुंजिज्ज भोअणं ॥८॥ व्याख्या-आदीयते इत्यादानं धनधान्यादि नरकहेतुत्वान्नरकं दृष्ट्वा नाददीत न गृह्णीत तृणमप्यास्तां हेमादि । तर्हि कथं प्राणधारणमित्याह-जुगुप्सते आत्मानमाहारं विना धर्माक्षममित्येवंशीलो जुगुप्सी आत्मनः स्वस्य पात्रे न गृहिभाजने । यदाह "पच्छाकम्मं पुरेकम्मं सिया तत्थ न कप्पई ।। एयमटुं न भुंजंति निग्गंथा गिहिभायणे" ॥१॥ दत्तं गृहस्थैरिति गम्यम् भुञ्जीत् भोजनम् । तथा सत्यमेषयेदित्यनेन मृषावादनिवृत्तिराक्षिप्ता न हन्यात् प्राणानित्यनेन प्राणातिपातनिवृत्तिः । आदानं हि ग्रहणमेव रूढं तच्च नरकहेतुत्वाददत्तस्येति गम्यते । ततो नाददीत तृणमपीत्यनेन साक्षाददत्तादानविरतिः । गवासमित्यादिना परिग्रहविरतिरुक्ता तदभिधानाच्च नापरिगृहीता स्त्री भुज्यते इति कृत्वा मैथुननिवृत्तिरप्युक्तैवेवमनानुपूर्व्या पञ्चाश्रवनिरोधो भावितः ॥८॥ १. पश्चात्कर्म पूर:कर्म स्यात् तत्र न कल्पते । एतदर्थं न भुञ्जन्ते निर्ग्रन्था गृहिभाजने ॥१॥ For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy